SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ४ सू० १६-१७ कल्पाकस्योपस्थापनाविधिः ११५ अयमाशयः-विवक्षिते भिक्षौ कल्पाके पश्चमहावतारोपणयोग्ये जाते सति यदि कदाचित् तस्य कल्पाकस्य माननीयो जनकादिरुपस्थापयितव्यो विद्यते परन्तु अद्यावधि कल्पाको न जातः आवश्यकसूत्रार्थयोञ्जता न सम्पन्नस्तहि स जघन्यतः पञ्चरात्रं यावत् प्रतीक्ष्यः, मध्यमतो दशरात्रं यावत् , उत्कर्षतः पञ्चदशरात्रं यावत् प्रतीक्ष्यः, तदनन्तरमपि यदि माननीयो जनकादिवर्गों न कल्पाक उपजायते तदा तत्प्रतीक्षां दूरतोऽपहाय स कल्पाको भिक्षुरुपस्थापनीय एव । तत्र यदि आचार्यः उपाध्यायो वा नोपस्थापयति तदा आचार्यस्य उपा. ध्यायस्य वा अनुत्थापननिमित्तकं छेदः छेदनामकं, परिहारः परिहारनामकं वा प्रायश्चित्तं भवति । अथ यदि तस्य कल्पाकस्य माननीयो जनकादिः भावी कल्पाको न विद्यते, तदा तेषां पित्रादीनामभावे यदि तं कल्पाकं चतूरात्रमध्ये पञ्चरात्रमध्ये वा नोपस्थापयति तदा तस्याचार्यस्य उपाध्यायस्य वा छेदः परिहारो वा प्रायश्चित्तं भवति ॥ सू० १५॥ सूत्रम्-आयरियउवज्झाए असरमाणे परं चउरायपंचरायाओ कप्पागं भिक्खु नो उवट्ठावेइ कप्पाए, अस्थि य इत्थ से केइ माणणिज्जे कप्पाए नत्थि से केइ छेए वा परिहारे वा, नस्थि य इत्थ से केइ माणणिज्जे कप्पाए से संतरा छेए वा परिहारे वा ॥ सू० १६॥ छाया-आचार्योपाध्यायः अस्मरन् परं चतूरात्रपञ्चरात्रात् कल्पाकं भिक्षु नो उपस्थापयति कल्पाके, अस्ति चाऽत्र कश्चित् माननीयः कल्पाकः नाऽस्ति तस्य कश्चित् छेदो वा परिहारो वा, नास्ति चाऽत्र तस्य कश्चित् माननीयः कल्पाकः तस्य सान्तरात् छेदो वा परिहारो वा ।। सू० १६ ॥ भाष्यम्-'आयरियउवज्झाए' आचार्योपाध्याय आचार्यो वा उपाध्यायो वा 'असर. माणे' अस्मरन् प्रमादवशात् कार्यव्यग्रत्वेन वा नवदीक्षितोपस्थापनस्य स्मरणमकुर्वन् 'परं चउरायपंचरायाओ' चतूरात्रात् पञ्चरात्राद्वा परम् 'कप्पागं भिक नो उबदावेई' कम्पार्क सूत्रार्थप्राप्तम् सम्यक् षइजीवनिकादिज्ञातारं भिक्षु नवदीक्षितं श्रमणम् नो उपस्थापयति छेदोपस्थापनीयचारित्रारोपणं न करोति, अथ 'कप्पाए' कल्पाके अभ्यस्तषड्जीवनिकादिके तस्मिन् विद्यमाने 'अस्थि य इत्थ से केइ माणणिज्जे कप्पाए' अस्ति विद्यते चाऽत्राऽस्मिन् गच्छे 'से' तस्य नवदीक्षितस्य कश्चित् कोऽपि माननीयः पितृभ्रातृप्रभृतिकः भावी कल्पाकः तदा अस्मरतः आचार्यस्य उपाध्यायस्य वा 'नत्थि से केइ छए वा परिहारे वा' नास्ति न भवति तदा 'से' तस्याचार्यस्य उपाध्यायस्य वा छेदो वा परिहारो वा । यदि नवदीक्षितस्य कश्चित् पितृभ्रातृप्रभृतिको माननीयः तस्मिन् गच्छे भावो कल्पाक उपस्थापनायोग्यो भवेत् तदा पञ्चरात्रात् परमपि नवदीक्षितस्याऽनुपस्थापने अस्मरतोऽपि आचार्यस्य उपाध्यायस्य वा छेदनामकं परिहारनामकम् अन्यद्वा सप्तरात्रादिकतपःप्रभृतिकं प्रायश्चित्तं न भवतीति भावः ।
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy