SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे भाष्यम् -- 'आयरियउवज्झाए' आचार्यः उपाध्यायश्च 'सरेमाणे' स्मरन् अयमुपस्थापनाह इति जानान: नवदीक्षितोऽयं छेदोपस्थापनीयचारित्रं प्राप्तुं योग्योऽस्ति इत्येवं जामानः 'परं चउराय पंचरायाओ' 'परं चतूरात्रात् पश्चरात्राद्वा 'कप्पागं' कल्पाकं यः षड्जीवनिकादि - सूत्रार्थं प्राप्तस्तं 'भिक्खु' भिक्षु नवदीक्षितं मुनिम् 'णो उवद्वावेइ' नो उपस्थापयति--छेदोपस्थापनीयचारित्रं न समर्पयति तदा आचार्यस्योपाध्यायस्य वा छेदपरिहारादि प्रायश्चित्तमापद्यते । तत्र यदि कदाचित् 'कप्पागे' कल्पाके छेदोपस्थापनीयचारित्रप्राप्तियोग्ये तस्मिन् सति 'अस्थि याई से केइ माणणिज्जे कप्पागे' अस्ति चाऽपि 'से' तस्य महात्रतरोपणयोग्यनवदीक्षितश्रमणस्य कश्चित् माननीयः संसारपर्यायिकः पिता ज्येष्ठो भ्राता, अन्यो वा कश्चित् स्वामी कल्पाकः भावी पञ्चमहाव्रतारोपणयोग्यः सः नवदीक्षितः प्रतिक्रमणं न जानाति पञ्चरात्रेण दशरात्रेण पश्चदशरात्रेण वा सहैव महाव्रतारोपणमावश्यकं भवेत् तदा 'से' तस्य आचार्यस्य उपाध्यायस्य वा 'णत्थि या से केइ छेए वा परिहारे वा' नास्ति न भवति कश्चित्तस्याचार्यस्योपाध्यायस्य वा छेदो वा परिहारो वा उपलक्षणादन्यदपि दशरात्रतपःप्रभृतिकं वा प्रायश्चित्तम् । यदि नवदीक्षितस्य महाव्रतारोपण योग्यतायुक्तस्याऽपि यदि माननीयः पितादिर्भवति स च दशरात्रात्परं प्रतिक्रमणाभ्यासाऽनन्तरं महाव्रतस्याधिकारी भविष्यतीति ज्ञात्वा आचार्यः 'उभयोः सहैव पञ्चमहाव्रतारोपणं करिष्यामि' इति कृत्वा पूर्वदीक्षितस्योपस्थापने विलम्बं करोति तदा आचार्यस्य उपाध्यायस्य वा छेदादिकं प्रायश्चित्तं न भवति, माननीयेऽनुत्थापिते तस्योपस्थापनायाः अयोग्यत्वादिति । 'नत्थि याइं से केइ माणणिज्जे कप्पागे' अथ नास्ति चाऽपि कश्चित् नवदीक्षितस्य माननीयः भावी कल्पाकः उपस्थापनायोग्यः पितादिः तदा चतूरात्रात् पञ्चरात्राद्वा परमपि नोपस्थापयति तदा 'से' तस्याचार्यस्योपाध्यायस्य वा 'संतरा छेए वा परिहारे वा' सान्तरात् स्वकृतात्-अन्तरात् अपराधात् यावन्ति दिनानि तस्योपस्थापनेऽन्तरितानि तावन्ति दिनानीत्यर्थः छेदो वा परिहारो वा छेदनामकं परिहारनामकं पञ्चरात्रादिकं तपःप्रभृतिकं वा प्रायश्चित्तं भवति । अयं भावः - यदि चतूरात्रात्परमन्यानि चत्वारि दिनानि यावत् नोपस्थापयति तदा आचार्यस्य उपाध्यायस्य वा प्रत्येकं प्रत्येकं दिनचतुष्टये - प्रथमचतुष्टये द्वितीयचतुष्टये च प्रायश्चित्तं चतुर्गुरुकं भवति । अथ यदि प्रथमद्वितीयचतुष्कादनन्तरमन्यानि चत्वारि दिनानि लङ्घयति तत्र नोपस्थापयति तदा षडूलघुकं प्रायश्चित्तं भवति, ततोऽप्यन्यानि चत्वारि दिनानि अतिवाहयति चेत् तदा षड्गुरुकं प्रायश्चित्तं भवति । ततोऽपि यद्यन्यानि चत्वारि दिनानि लङ्घयति तदा चतुर्गुरुकश्छेदः प्रायश्चित्तं भवति । ततः परं यद्यन्यानि चत्वारि दिनानि लङ्घयति, तदा षड्गुरुकश्छेदः प्रायश्चित्तं भवति । तदनन्तरमेकैकदिवसातिक्रमे मूलाऽनवस्थाप्यपाराचितानि प्रायचित्तरूपेण भवन्तीति । ११४
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy