SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ४ सू० १४-१५ मरणासन्नाचार्याद्यनुज्ञाते तत्पश्चात्पददानविधिः ११३ तेसिं च णं समुकिलुसि परो वएज्जा दुस्समुकिटं ते अजो निक्खिवाहि, तस्स णं निक्खिवमाणस्स नत्थि केइ छेए वा परिहारे वा, जे साहम्मिया अहाकप्पेणं नो अब्भुटाए विहरंति सव्वेसि तेसि तप्पत्तियं छेए वा परिहारे वा ॥ सू० १४ ॥ ___ छाया--आचार्योपाध्यायोऽवधावन् अन्यतरं वदेत् आर्य! मयि खलु अवधाविते सति अयं समुत्कर्षयितव्यः, स च समुत्कर्षणाहः समुत्कर्षयितव्यः स च नो समुत्कर्षणाहों नो समुत्कर्षयितव्यः, अस्ति चात्रऽन्यः कश्चित् समुत्कर्षणार्हः समुत्कर्षयितव्यः, नास्ति चात्राऽन्यः कश्चित् समुत्कर्षणार्हः स एव समुत्कर्षयितव्यः, तस्मिंश्च खलु समुत्कृष्टे परो वदेत् दुःसमुत्कृष्टं ते आर्य ! निक्षिप, तस्य खलु निक्षिपतो नास्ति कश्चित् छेदो वा परिहारो वा, ये साधर्मिकाः यथाकल्पेन न अभ्युत्थाय विहरन्ति सर्वेषां तेषां तत्प्रत्ययिकं छेदो वा परिहारो वा ॥ सू० १४ ॥ __ भाष्यम्-'आयरियउवज्झाए' आचार्योपाध्याय आचार्य उपाध्यायश्च 'ओहायमाणे' अवधावन् मोहेन रोगेण वा लिङ्गं सदोरकमुखवस्त्रिकारजोहरणलक्षणं परित्यज्य गच्छा. निस्सरन् अयं गच्छसापेक्षोऽतो गमनात्प्रागेव 'अन्नयरं' अन्यतरम् उपाध्यायं प्रवर्तकं स्थविरं गणिनं गणधरं गणावच्छेदकं वा 'वएज्जा' वदेत् , किं वदेत् ! तत्राह 'अज्जो ! ममंसि णं ओहावियलि' हे आर्य ! मयि खलु अवधाविते चारित्रलिङ्ग मुक्त्वा गते सति 'अयं समुक्कसियव्यो' अयममुकः श्रमणः मत्स्थाने समुत्कर्षयितव्यः-मम स्थाने स्थापनीयः । शेषं सर्वं त्रयोदशसूत्रवदेव व्याख्येयम् ॥ सू. १४ ॥ पूर्वमवधाविताचार्योपाध्यायविषयकं सूत्रमुक्तम् , अवधावितश्च स यदि भग्नव्रतो जायेत, भग्नवतो भूत्वा ततो यदि स शुभकर्मोदयात्पश्चात्तापपूर्वकं पुनरुपतिष्ठति, पुनरुपस्थिते सति तस्मिन् उपस्थापना कर्तव्या भवति, तत्प्रसङ्गाद् उपस्थापनाप्रतिपादनार्थं सूत्रमाह-'आयरियउवज्झाए सरेमाणे' इत्यादि । सूत्रम् - आयरियउन ज्झाए सरेमाणे परं चउरायपंचरायाओ कप्पागं भिक्खु नो उवट्ठावेइ कप्पाए, अस्थि याई से केइ माणणिज्जे कप्पागे णत्थि याई से केइ छेए वा परिहारे वा, णस्थि याई से केइ माणणिज्जे कप्पाए से संतरा छेए वा परिहारे वा ॥ सू०१५॥ छाया-आचार्योपाध्यायः स्मरन् परं चतुरात्रपञ्चरात्रात् कल्पाकं भिक्षु नो उपस्थापयति कल्पाके, अस्ति तस्य माननीयः कल्पाकः नास्ति चापि तस्य कोऽपि छेदो वा परिहारो वा, नास्ति चापि तस्य कश्चित् माननीयः कल्पाकः तस्य सान्तरात् छेदो वा परिहारो वा ॥ सू० १५॥ व्य. १५
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy