SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११२ । .. व्यवहारको पयत, तदनन्तरं तत्पदं निक्षिप्य भवद्भिरभ्युद्यतविहारादिकं यदिष्टं तत् प्रतिपत्तव्यम् । गीताभेरेवमुक्ते तेन गणनायकपदं प्रतिपद्य कश्चनाप्येकः श्रमणो गीतार्थत्वेन निर्मापितः । तत्पश्चात्तस्य मनसि एवं विचारः समुत्पद्येत-यथा अभ्युद्यतविहाराद्यपेक्षया गच्छपरिपालनं विपुलतरं निर्जहेतुकमित्यहमेव परिपालयामि गच्छमिति । एवमन्यगीतार्थे निष्पन्ने सति गच्छगता गीतार्थास्तं ब्रुवते-निक्षिप गणनायकपदमिति गीतार्थे रेवमुक्ते स ब्रूते-न निक्षिपामि पदवी किन्तु इच्छामि गच्छं परिपालयितुम् । एवमुक्ते ते गीतार्थाः क्षुभ्यन्ति, ततः 'तंसि च णं समुक्किटुंसि' तस्मिंश्च खलु समुत्कृष्ट पूर्व गणनायकत्वेन स्थापिते 'परो वएज्जा' परः गीतार्थः गच्छो वा वदेत् 'अज्जो' हे आर्य ? 'ते' तव 'दुस्समुक्किट' दुःसमुत्कृष्टम् अनुचितमिदं गणनायकपदं तस्मात् 'निक्खिवाहि' निक्षिप त्यजेदं पदम् , यत् पूर्व त्वया नेच्छितं गणनायकपदं पश्चादिदानों यद्यपि तव रोचते तथापि नास्माकं रोचते अतो दुःसमुत्कृष्टं खलु तवेदं गणनायकपदं वर्तते । एवं तैः कथिते यदि स स्वपदं निक्षिपति तदा 'तस्स णं' तस्य समुत्कृष्टस्य खल्लु 'निक्खिवमाणस्स' निक्षिपतः स्वपदवी विमुञ्चतः 'नत्थि केइ छेए वा परिहारे वा' नाऽस्ति कोऽपि छेदो वा दीक्षाछेदरूपः, परिहारो वा सप्तरात्रं वा तपः, न तस्य किमपि प्रायश्चित्तं समापतेदिति भावः । अथ 'जे साहम्मिया' ये साधर्मिकाः ये पुनः साधर्मिका गच्छसाधवः 'अहाकप्पेणं' यथाकल्पेन आवश्यकादिषु यथोक्तविनयकरणलक्षणेन, तथाहि-आवश्यके क्रियमाणे यो विनयः तस्याऽऽचार्यस्य कर्त्तव्यो भवेत्तं च न कुर्वन्ति, सूत्रमर्थ वा तत्समीपे न गृह्णन्ति, आचार्यप्रायोग्यं भक्तं तस्य न प्रयच्छन्ति, तस्य पुरतो नालोचयन्ति आचार्यस्य वस्त्रपात्रकम्बलादिप्रत्युपेक्षणाथै नोपस्थिता भवन्ति, नापि तस्य कृतिकर्म वन्दनकमन्यद्वा कुर्वन्ति, न च तस्य यास्तिस्रः संस्तारकभूमयस्ताअपि ददति एवं यथाकल्पेन यदि 'नो अब्भुटाए' नो अभ्युत्थाय तस्य पदवीत्यागं नो कारयित्वा 'विहरंति' विहरन्ति तिष्ठन्ति तदा 'सव्वेसिं तेसिं' सर्वेषां तेषां यथाकल्पमनभ्युत्तिष्ठतां पूर्वोक्तां क्रियां कुर्वतामित्यर्थः प्रत्येकं सर्वेषां पदवीधारकस्य च 'तप्पत्तिय' तत्प्रत्ययिकं यथाकल्पानभ्युत्थान कारणकं 'छेए वा परिहारे वा' छेदो वा दीक्षाच्छेदः, परिहारः सप्तरात्रं वा तपः प्रायश्चित्तं समापतति ॥ सू० १३ ।।। पूर्व सापेक्षे आचार्योपाध्याये कालधर्मप्राप्ते तत्कथितानुसारेण तत्पदेऽन्याचार्यस्थापने विधिरुक्तः, साम्प्रतमाचार्योपाध्यायस्य अवधावने तद्विधिमाह,-अथवा पूर्व भवजीवितान्मरणविषयकं सूत्रमूक्तम् , साम्प्रतं संयमजीवितान्मरणविषयकं सूत्रं प्रतिपाद्यते-'आयरियउवज्झाए ओहायमाणे' इत्यादि । - सूत्रम्-आयरियउवज्झाए ओहायमाणे अन्नयरं वएज्जा अज्जो ! ममंसिणं ओहावियंसि समाणंसि अयं समुक्कसियव्वे, से य समुकसणारिहे समुक्कसियत्वे, से य नो समुक्कसिणारिहे नो समुक्कसियव्वे, अस्थि या इत्थ अण्णे केइ समुक्कसरणारिहे से समुक्कसियन्वे, नत्थि या इत्थ अन्ने केइ समुक्कसणारिहे से चेव समुक्कसियव्वे
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy