SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ४ सू०१३ मरणासन्नाचार्यानुशाते तत्पश्चात्पददानविधिः १११ वमाणस्स नत्यि केइ छेए वा परिहारे वा, जे साहम्मिया आहाकप्पेणं नो अब्भुडाए विहरंति सम्वेसि तेसि तप्पत्तियं छेए वा परिहारे वा ॥ सू० १३॥ छाय-अचार्योपाध्यायो ग्लायन् अन्यतरं वदेत्-मार्य ! मयि खलु कालगते सति अयं समुत्कर्षयितव्यः, स च समुत्कर्षणाहः समुत्कर्षयितव्यः । स च नो समुत्कर्षणाहनो समुत्कर्षयितव्यः, अस्ति चाऽत्राऽन्यः कश्चित् समुत्कर्षणार्हः समुत्कर्षयितव्यः । नास्ति चात्रान्यः कश्चित् समुत्कर्षणार्हः स एव च समुत्कर्षयितव्यः। तस्मिंश्च खलु समुत्कृष्टे परो वदेत् दुस्समुत्कृष्ट ते आर्यः! निक्षिप, तस्य खलु निक्षिपतो नाऽस्ति कश्चित् छेदो वा परिहारो वा, ये सामिका यथाकल्पेन नो अभ्युथाय विहरन्ति सर्वेषां तेषां तत्प्रत्ययिक छेदो वा परिहारो वा ॥ सू० १३ ॥ भाष्यम्--'आयरियउवज्झाए' इत्यादि । 'आयरियउवज्झाए' आचार्यः उपाध्यायो वा 'गिलायमाणे' ग्लायन् धातुक्षोभादिना ग्लानिमुपगच्छन् आसन्नमरणः सन्नित्यर्थः 'अन्नयर' अन्यतरम् उपाध्याय-प्रवर्तक-स्थविर-गणि-गणधर-गणावच्छेदक-गीतार्थभिक्षूणां मध्यात् यं कमप्येकं गच्छसापेक्षः सन् 'वएज्जा' वदेत्-कथयेत् , कश्चिद्गणनायक आचार्यादिः धातुक्षोभादिनाऽनिष्टादिनिमित्तदर्शनेन वा स्वकीयं कालगमनं संभाव्य गच्छसंचालनार्थ गच्छवासिनमेकं कमपि श्रमणं समाह्य कथयतीत्यर्थः । 'अज्जो !' हे आर्य ! 'ममंसि णं कालगयंसि समाणंसि' मयि खल कालगते मयि मृते सति 'अयं समुक्कसियव्वे' अयं समुत्कर्षयितव्यः अयं परिदृश्यमानः श्रमणः मत्समीहितः समुत्कर्षयितव्यः आचार्यपदे स्थापनीयो भवद्भिः । ततः कालगते आचार्ये ‘से य समुक्कसणारिहे' स च यदि समुत्कर्षणार्हः समुत्कर्षणयोग्यः आचार्यादिपदवीयोग्यः अभ्युद्यतमरणमभ्युद्यतविहारं वा न स्वीकृतो भवेत् तदा स एव 'समुक्कसियन्वे' समुत्कर्षयितव्यः गणनायकपदे स्थापनीयो नान्यः, यदि स वदेत्-अहमभ्युद्यतविहारं जिनकल्पादिकमभ्युद्यतमरणं पादपोपगमनेङ्गितभक्तात्याख्यानरूपं वा प्रतिपत्स्ये इति तदा किं कुर्यात् ! तत्राह-'अत्थि या इत्थ' इत्यादि, 'अत्थि या इत्थ अन्ने केइ समुक्कसणारिहे' अस्ति चाऽत्र गच्छेऽन्यः कोऽपि श्रमणः समुत्कर्षणार्हः गणनायकपदवोयोग्यः श्रमणसमुदायाभीष्टस्तदा ‘से समुक्कसियव्वे' स समुत्कर्षयितव्यः गणनायकपदे स्थापनीयः । अथ यदि 'नत्थि या इत्थ केइ समुक्कणारिहे' नास्ति चाऽत्र गच्छे. ऽन्यः कोऽपि श्रमणः समुत्कर्षणार्हः गणनायकपदवीयोग्यः तदा किं कुर्यादित्याह-तदा 'से चेव' स एव योऽभ्युद्यतविहारादिकं स्वीकर्तुकामः स एव संप्रार्थ्य 'समुक्कसियव्वे' समुत्कर्षयितव्यः गणनायकपदे स्थापनीयः, संप्रार्थना यथा-गीतार्थाः संप्रार्थनापुरस्सरं तं ब्रुवते-यूयं गणनायकपदं किश्चित् कालं यावत् स्वीकुरुत, परिपालयन्तश्च भवन्त एकमस्माकं कश्चन श्रमणं गीतार्थ निर्मा
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy