________________
१२४
namaha
व्यवहारसूत्र सूत्रम्--दो साहम्मिया एगयो विहरंति, तंजहा-सेहे य रायणिए य, तत्थ रायणिए पलिच्छण्णे सेहतराए अपलिच्छण्णे, इच्छा रायणिए सेहतरागं उवसंपज्जेज्जा, इच्छा नो उवसंपज्जेज्जा इच्छा भिक्खोववायं दलयइ कप्पागं इच्छा नो दलयइ कप्पागं ॥२५॥
छाया-द्वौ साधर्मिको एकतो विहरतः, तद्यथा-शैक्षश्च रात्निकश्च, तत्र रात्निकः परिच्छन्नः शैक्षतरकोऽपरिच्छन्नः, इच्छा रात्निकः शैक्षतरकमुपसंपद्येत इच्छा नो उपसंपधेत इच्छाभिक्षोपपातं ददाति कल्प्यकम् इच्छा नो ददाति कल्प्यकम् ॥ सू० २५ ॥
भाष्यम्-'दो साहम्मिया' द्वौसाधर्मिको 'एगयओ विहरंति' एकतः सहैव विहरतः 'तंजहा' तद्यथा 'सेहे य रायणिए य' शैक्षश्च रानिकच, तत्र शैक्षः लघुपर्यायः रानिकः रत्नाधिकः पर्यायज्येष्ठः 'तत्थ' तत्र तयोईयोः शैक्षकरात्निकयोर्मध्ये रायणिए' रात्निको रत्नाधिकः पर्यायज्येष्ठः 'पलिच्छण्णे' परिच्छन्नः परिच्छदेन शिष्यपरिवारेण सहितः 'सेहतराए अपलिच्छण्णे' शैक्षतरकोऽपरिच्छन्नः शिष्यपरिवारेण रहितो भवेत् , एवं सति तत्र 'इच्छा' इच्छा-रानिकस्य इच्छा यदि भवति तदा 'रायणिए' रात्निकः ‘सेहतरागं उवसंपज्जेज्जा' शैक्षतरकमुपसंपद्येत यदि रानिकस्येच्छा भवेत् तदा स रत्नाधिकः शैक्षतरकं स्वमर्यादायां गृह्णीयात् 'इच्छा' इच्छा पर्यायज्येष्ठस्य वाज्छा तं शैक्षतरकं 'नो उवसंपज्जेज्जा' नो उपसंपद्येताऽपि । तथा 'इच्छा भिक्खोववायं दलइ कप्पागं' इच्छा भिक्षामुपपातं च ददाति कल्प्यकम् । यदि रत्नाधिकस्येच्छा भवति तदा शैक्षकाय भिक्षामशनादिचतुर्विधाहारमानीय शिष्यद्वारा आनाय्य वा कल्पनीयं ददाति, 'इच्छा नो दलयइ कप्पागं' इच्छा नो ददाति कल्प्यकम् , यदि कदाचित् रत्नाधिकस्याऽदातुमिच्छा तदा कल्पनीयं भिक्षादिकमानीय नापि ददाति शैक्षकाय ।
अयं भावः-शैक्षको यदि सपरिवारो भवेत्तदा निष्परिबारं रत्नाधिकमुपसंपद्य विहत्तुं कल्पते किन्तु रत्नाधिकः सपरिवारः शैक्षकोऽपरिवारः एतादृश्यां स्थितौ रत्नाधिक इच्छानुसारं वर्तते, शैक्षकं स्वोपसंपादायां गृह्णीयात् नो गृह्णीयात् , पर्यायज्येष्टस्य द्रव्यक्षेत्रकालभावादिज्ञातृत्वेन ऐच्छिक प्रवृत्तित्वविधानात् , इदमुक्तं भवति-यदि स शैक्षतरकोऽल्पपर्यायः किन्तु तुल्यश्रुतः तदा स रत्नाधिकश्चिन्तयति-एतस्य भिक्षाहिण्डनव्याक्षेपेण मा सूत्रार्था नश्येयुः, ततः संघाटकं ददाति, अथवा एष मम समानगुरुकुलवासी सहाध्यायी द्रव्यपरिच्छेदेनाऽपरिच्छदो मा भूयादिति सहाध्यायान्तेवासिस्नेहेन संघाटं साधुपरिवार ददाति, आलोचनां च प्रयच्छति, यद्यल्पश्रुतस्तदा तु परिवारमुपसंपदं वा ददातीति । अथ स शैक्षतरको रत्नाधिकाद्बहुश्रुतस्तदा नियमत उपसंपत्तव्यः, परिवारश्च तस्य दातव्यः, रत्नाधिकस्य सूत्रार्थग्रहणकामुकत्वादिति । यदि शैक्षतरकोऽबहुश्रुतस्तदा न ददातीति 'इच्छा नो इच्छा' इत्यस्य विवेकः ॥ सू० २५॥