SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ .१०८ व्यवहासूत्रे रायाओ वा दुरायाओ वा वत्थए जं तत्थ परं एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे वा ॥ सू०११॥ छाया--ग्रामाऽनुग्रामं द्रवन् भिक्षुर्य पुरतः कृत्वा विहरति स आहत्य विष्वग्भवेत्, अस्ति चात्राऽन्यः कश्चित् उपसंपदार्हः उपसंपत्तव्यः, नास्ति कश्चित् उपसंपदार्हः तस्य आत्मनः कल्पोऽसमाप्तः कल्पते तस्यैकरात्रिक्या प्रतिमया यां यां खलु दिशमन्ये साधर्मिका विहरन्ति तां तां खलु दिशमुपलातुम्, नो तस्य कल्पते तत्र विहारप्रत्ययं वस्तुम्, कल्पते तस्य तत्र कारणप्रत्ययं वस्तुम, तस्मिश्च कारणे निष्ठिते परो वदेत घस आर्य! एकरात्रं वा द्विरात्रं वा एवं तस्य कल्पते एकरात्र वा द्विरात्र वा वस्तुम्, नो तस्य कल्पते परमेकरात्राद्वा द्विरात्राद्वा वस्तुम्, यत्तत्र परमेकरात्राद्वा द्विरात्राद्वा वसति तस्य सान्तरात् छेदो वा परिहारो वा ।। सू०११ ॥ भाष्यम्-'गामाणुगाम' इत्यादि । 'गामाणुगाम' प्रामानुग्रामम् एकस्माद् त्रामाद्गामान्तरम् 'दूइज्जमाणे' द्रवन् गच्छन् एतावता ऋतुबद्धः कालः प्रदर्शितः । 'भिक्ख' भिक्षुः श्रमणः 'जं पुरओ कटु विहरइ' यं पुरतः कृत्वा पुरस्कृत्य यमाचार्यमुपाध्यायं वा पुरतः कृत्वा यन्निश्रयेत्यर्थः विहरति ‘से आइच्च विसंभेज्जा' स आचार्य उपाध्यायो वा गच्छनायकः आहत्य कदाचिद् आयुर्दलिकपरिक्षयात् विश्वग्भवेत् शरीरात्पृथग् भवेत् कालगतो मृतो भवेदित्यर्थः तदा 'अत्थि या इत्थ अन्ने केइ उवसंपज्जणारिहे' आस्त चाऽत्र समुदायेऽन्यः कश्चित् आचार्य उपाध्यायो गणी गणधरः प्रवर्तकः स्थविरो वा उपसंपदाऽर्हः उपसंपद्योग्यः पदवीयोग्य इत्यर्थः तदा 'से उवसंपज्जियव्वे' स एवोपसंपत्तव्यः आचार्यादित्वेन स्थापयिस्वा तन्निश्रायां स्थातव्यमित्यर्थः । 'नस्थि या इत्थ अन्ने केइ उवसंपणारिहे' यदि नास्ति चात्र कश्चिदन्य आचार्यादिः, गणी प्रवर्तकादिर्वा समुदाये उपसंपदार्हः आचाराङ्गनिशीथादेता तदा 'अप्पणो कप्पाए असमत्ते' आत्मनः स्वकीयस्य कल्पः आचारकल्पः असमाप्तः आचारकल्पः पूर्णो न पठितो भवेत्तदा तदने पठनस्यावश्यकता वर्तते एवं सति 'कप्पइ से एगराइयाए पडिमाए' कल्पते तस्य एकरात्रिक्या प्रतिमया एकरात्राभिग्रहेण 'अत्रतः प्रस्थितोऽहं गन्तव्यस्थानादर्वाग् अपान्तराले एकरात्रादधिकं न स्थास्यामि' इत्यभिग्रहमादायेत्यर्थः 'जणं जणं दिसं' यां यां खलु दिशं-यस्यां यस्यां दिशि यत्र यत्र प्रदेशे 'अन्ने साहम्मिया विहरंति' अन्ये केचित् साधर्मिकाः समानधर्माणो विहरंति 'तं णं तं गं दिसं उवलित्तए' तां तां खलु दिशं-तस्यां तस्यां दिशि उपलातुम् गन्तुमित्यर्थः किन्तु 'नो से कप्पइ तत्थ विहारवत्तियं वत्यए' नो तस्य भिक्षुकस्य कल्पते अपान्तराले विहारप्रत्ययं निवासनिमित्तकं आहारोपकरणादिलोभात्तत्रावस्थानकारणकं वस्तुं वासं कर्तुम् । 'कप्पइ से तत्थ कारणवत्तियं वत्थए' कल्पते तस्यान्तराले कारणप्रत्ययं कारणमासाद्य ग्लानादेवैयावृत्त्यादिकारणमालभ्य एकद्विरात्रादधिकमपि
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy