________________
भाष्यम् उ० ४ सू० १०-११ आचार्यादौ कालधर्मप्राप्त विहरणविधिः १०७
द्वौ शिष्यो एकश्च स्वयमिति प्रत्येकं द्वित्रादीनां त्रयस्त्रयो मिलित्वा षट्संख्यकादयो गणावच्छेदकास्तेषां हेमन्तग्रीष्मेषु विहर्तुं कल्पते इति भावः ।। सू०९॥
सूत्रम्-से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कब्बडंसि वा मडंबसि वा पट्टणंसि वा दोणमुहंसि बा आसमंसि वा संबाइंसि वा संनिवेसंसि वा बहूणं आयरियउवज्झायाणं अप्पतइयाणं, बहणं गणावच्छेययाणं अप्पचउत्थाणं कप्पइ वासावासं वत्थए अन्नमन्ननिस्साए ॥ सू० १०॥
__छाया-अथ प्रामे वा नगरे वा राजधान्यां वा खेटे वा कब्बडे वा मडम्बे वा पत्तने वा द्रोणमुखे वा आश्रमे वा संबाहे वा बहूनामाचार्योपाध्यायानामात्मतृतीयानाम् बहूनां गणावच्छेदकानामात्मचतुर्थानां कल्पते वर्षावासं वस्तुमन्योऽयानश्रया ॥ सू० १० ॥
भाष्यम् – 'से गामंसि वा' इत्यादि । 'से' अथानन्तरम् गामंसि वा' ग्रामे वा पूर्वनिर्दिष्टस्वरूपेषु प्रामादिषु 'बहूणं' बहूनामनेकेषां 'आयरियउवज्झायाणं' आचार्योपाध्यायानां प्रत्येकमनेकेषामाचार्याणाम् तथा प्रत्येकमनेकेषामुपाध्यायानाम् 'अप्पतइयाणं' आत्मतृतीयानाम् आत्मना सह त्रित्वसंख्याविशिष्टानाम्, तथा 'बहूणं गणावच्छेययाणं' बहूनामनेकेषां गणावच्छेदकानाम् 'अप्पचउत्थाणं' आत्मचतुर्थानाम् आत्मना सह चतुष्कसंख्याविशिष्टानाम् 'कप्पई' कल्पते 'वासावासं' वर्षावासं चातुर्मास्यम् 'वत्थर' वस्तुं वासं कर्तुम् । कल्पते आत्मतृतीयानामाचार्याणां बहूनाम्, तथा-आत्मचतुर्थानां बहूनां गणावच्छेदकानां वर्षावासं वस्तुम् । कथमित्याह'अन्नमन्ननिस्साए' अन्योऽन्यनिश्रया परस्परोपसंपदा चातुर्मास्ये एकत्र वासं कत्तुं कल्पते । अत्रायं भावः यथा-एकस्याचार्यस्य द्वौ शिष्यो एकश्च स्वयमिति त्रयः, एवं प्रत्येक द्विवादीनां संख्यामेलनं भवतीति परस्परं मिलित्वा, एवमेकस्य गणावच्छेदस्य त्रयः शिष्याश्चतुर्थः स्वयमिति चत्वारः, एवं प्रत्येकं द्वित्रादीनां संख्यामेलनं भवतीति परस्परं मिलित्वा तेषां वर्षावास स्थातुं कल्पते इति । यत् क्षेत्रं यस्यानुकूलं भवति तन्निश्रया वर्षावासे स्थातव्यमिति ॥ सू० १०॥
सूत्रम्-गामाणुगामं दूइज्जमाणे भिक्खू जं पुरओ कटु विहरइ से आहच्च वीसंभेज्जा अत्थि या इत्थ अन्ने केइ उत्रसंपज्जणारिहे से उवसंपज्जियव्वे, णत्थि या इत्थ अन्ने केइ उवसंपज्जणारिहे तस्स अप्पणो कप्पाए असमत्ते कप्पइ से एगराइयाए पडिमाए जणं जगणं दिसं अन्ने साहम्मिया विहरंति तण्णं तण्णं दिसं उवलित्तए, नो से कप्पइ तत्थ विहारवत्तियं वत्थए, कप्पइ से तत्थ कारणवत्तियं वत्थए, तंसि च णं कारणंसि निट्ठियंसि परो वएज्जा वसाहि अज्जो एगरायं वा दुरायं वा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पइ परं एग