SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ४ सू० १२ araraat area प्राप्ते विहरणाविधिः १०९ 1 वस्तुं वासं कर्त्तुम् । ‘तंसि च णं कारणंसि निट्ठियंसि तस्मिंश्व खलु कारणे निष्ठिते समाते सति यदि 'परो वएज्जा' परोऽन्यः तत्रत्यः श्रमणः संघो वा वदेत् कथयेत्, किं वदेत्तत्राह'वसाही' - यदि, 'साहि अज्जो' वस निवासं कुरु हे आर्य ! ' एगरायं वा दुरायं वा' एकरात्रं वा द्विरात्रं वा यावद् अत्राधिकं वस, इति यदि परो वदेत् तदा एवं से कप्प गरायं वा दुरायं वा थए' एवमन्येन प्रार्थनायां कृतायां तस्य श्रमणस्य कल्पते एकरात्रं वा द्वित्रं वा वस्तुम्, किन्तु 'नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए' नो कल्पते तस्य एकरात्राद्वा द्विरात्राद्वा परमधिकं तत्र वस्तुम्, 'जं तत्थ परं एगरायाओ वा दुरायाओ वा वसई यद् - यदि तत्र परमधिकमेकरात्राद्वा द्विरात्राद्वा कारणं विना वसति तदा 'से' तस्य 'संतरा छेए वा परिहारे वा' सान्तरात् स्वकृतादन्तरात् अन्तररूपापराधात् गन्तव्यस्थानप्रापणे यावदैवसिकमन्तरं भवेत् यावन्ति दिनानि गन्तव्यस्थानप्रापणे तत्र व्यवधानीकृतानि तावद्दिवसपरिमितः छेदो वा परिहारो वा छेदनामकं वा परिहारनामकं वा प्रायश्चित्तं भवेत्तस्येति । अत्रायं सूत्राशयः -- यन्निश्रया भिक्षुग्रमानुग्रामं विहरति तस्मिन् कालगते सति गच्छे यदि उपसम्पदाः पदवीयोग्यः कोऽप्यन्यो भवेत्तदा तं तत्र उपसंपदायां स्थापयित्वा तन्निश्रायां स्थातव्यम्, तदनन्तरं स्वस्य पठितुमारब्धकल्पस्याग्रे पठनं कर्त्तव्यम् । यदि उपसंपदाहः - पदवीयोग्योऽन्यः कोऽपि गच्छे न भवेत्, स्वकीयः कल्पश्चाऽसमाप्तो वर्त्ततेऽतस्तत्पूरणार्थमग्रे पठनमा - वश्यकं वर्तते स्वनिश्रायां कतिचित् साधवो भवेयुः, एवं सति स्वनिश्रागतान् सर्वान् साधून् गृहीत्वा गमनं कर्त्तव्यम् । तत्र एकरात्रिकाभिग्रहेण गच्छेत्, यथा अत्रतो निर्गमनानन्तरं गन्तव्यस्थानादर्वाग् अपान्तराले एकरात्रादधिकं कुत्रापि न स्थास्यामीति । एवंविधाभिग्रहेण यस्यां दिशि कल्पपाठकाः साधर्मिकास्तिष्ठन्ति तां दिशं प्रति प्रस्थातव्यम्, तत्रापान्तराले गोकुलादौ दुग्धदध्यादिलाभरूपं प्रतिबन्धमकुर्वन् गच्छेत् किन्तु मार्गे आहारादिलाभमपेक्ष्य स्थातुं न कल्पते । यदि मार्गे स्थितानां साधूनां ग्लानाद्यवस्थायां वैयावृत्त्यादिकारणमुपस्थितं भवेत्तदा तस्य तत्कारणप्रत्ययमेकरात्रादधिकमपि तत्र वस्तुं कल्पते । समाप्ते च कारणे तत्रतो निर्गन्तव्यम् । यदि तत्रत्याः श्रमणाः पुनरधिकं वस्तुमाग्रहं कुर्युः तदा एकरात्रं वा द्विरात्रं वा तत्र स्थातुं कल्पते । तत्राहारोपध्यादिलोभादेकद्विरात्रादधिकं वसेत् तदा तस्य भिक्षोरपान्तराले गन्तव्यस्थानप्राप्तौ यावदिनावधिकमन्तरं भवेत् तावत्परिमित छेदः परिहारतपो वा कल्पपठनान्तरायकारणकं समापद्येति सूत्राशयः ॥ सू० ११ ॥ तदेवं ऋतुबद्धकालसूत्रं व्याख्याय सम्प्रति वर्षावाससूत्रे व्याख्यातुमाह - ' वासावासं' इत्यादि । सूत्रम् - वासावासं पज्जोसविओ भिक्खू य जं पुरओ कटु विहरइ से आहच्च ariभेज्जा अस्थि या इत्थ अन्ने केइ उवसंपज्जणारिहे से उवसंपज्जियब्वे, नत्थि या
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy