________________
१०४
व्यवहारसूत्रे कल्पते आचार्योपाध्यायस्य आत्मतृतीयस्य वर्षावासं वस्तुम् ॥ सू० ६॥ नो कल्पते गणावच्छेदकस्य आत्मतृतीयस्य वर्षावासं वस्तुम् ॥ सू० ७ ॥ कल्पते गणावच्छेदकस्य आत्मचतुर्थस्य वर्षावासं वस्तुम् ॥ सू० ८॥
भाष्यम्-'नो कप्पई' इति । 'नो कप्पई' नो कल्पते 'आयरियउज्वझायस्स' आचार्यस्य उपाध्यायस्य च 'एगाणियस्स' एकाकिनः अद्वितीयस्य 'हेमंतगिम्हासु' हेमन्तग्रीष्मेषु, अत्र वर्षस्य त्रय एव भागा विवक्षिताः, हेमन्तकालः ग्रीष्मकालः वर्षाकालश्चेति, तत्र हेमन्तग्रीष्मकालः शेषकालनाम्ना ऋतुबद्धकालनाम्ना वा प्रसिद्धः, सोऽष्टमासात्मको नवमासात्मको वा भवति तेन शेषकालेऽष्टमासात्मके नवमासात्मके वा हेमन्तग्रीष्मरूपे. सूत्रे बहुवचनं हेमन्तग्रीष्मयोरष्टनवमासात्मकत्वात् , तेषु अष्टसु नवसु वा मासेषु इत्यर्थः आचार्योपाध्या. यस्य एकाकिनः 'चरित्तए' चरितुं विहत्तै न कल्पते, आचार्योपाध्यायस्य हेमन्तग्रीष्मकाले मासकल्पेन विहरणं भवति गच्छश्च सबालवृद्धाकुलः ततस्तत्र तिष्ठतः तस्य वैयावृत्त्यादिकं बहु कर्त्तव्यं भवेत् सूत्रार्थतदुभयानां स्मरणे मा विघ्नो भूयादिति गच्छाद् बहिः पृथग एकाकी स्थातु मिच्छेत् तदा नैकाकित्वेन स्थातुं कल्पते, यतो गच्छः अनाचार्योपाध्यायो न कर्त्तव्य इति ॥ सू०१॥
तर्हि कथं कल्पते इति द्वितीय सूत्रमाह-'कप्पई' इत्यादि । कप्पइ कल्पते 'आयरियउवज्झायस्स' आचार्योपाध्यायस्य 'अप्पबिइयस्स' आत्मद्वितीयस्य 'हेमन्तगिम्हासु' हेमन्तग्रीष्मेषु अष्टसु मासेषु 'चरित्तए' चरितुं विहन्तुम् ॥ सू० २॥
__ अथ गणावच्छेदकविषयं निषेधरूपं तृतीयसूत्रमाह-'नो कप्पइ गणा०' इत्यादि । 'नो कप्पई' नो कल्पते 'गणावच्छेययस्स' गणावच्छेदकस्य 'अप्पविइयस्स' आत्मद्वितीयस्य आत्मा स्वयं द्वितीयो यत्र स आत्मद्वितीयः द्वितीयेन आत्मभिन्नेन साधुना सहितः, तस्य 'हेमंतगिम्हासु' हेमन्तग्रीष्मेषु 'चरित्तए' चरितुम् ॥ सू० ३॥
चतुर्थ गणावच्छेदकविषयमाज्ञासूत्रमाह-'कप्पइ गणाः' इत्यादि ।
'कप्पइ' कल्पते 'गणावच्छेययस्स' गणावच्छेदकस्य 'अप्पतइयस्स' आत्मतृतीयस्य, तत्र आत्मा स्वयं तृतीयो यत्र स आत्मतृतीयः द्वाभ्यामात्मभिन्नाभ्यां साधुभ्यां सहितः, तस्य 'हेमंतगिम्हासु' हेमन्तग्रीष्मेषु चरितुम् ॥ सू० ४ ॥
अथ वर्षावासमधिकृत्य निषेधविषयं पञ्चममाचार्योपाध्यायसूत्रमाह -'नो कप्पइ०' इत्यादि ।
'नो कप्पई' न कल्पते आयरियउवज्झायस्स' आचार्योपाध्यायस्य 'अप्पबिइयस्स' आत्मद्वितोयस्य द्वितोयसाधुसहितस्य 'वासावासं' वर्षावासं 'वस्थए' वस्तुं स्थातुम् ॥ सू० ५॥