________________
॥ अथ चतुर्थीदेशकः प्रारभ्यतेव्याख्यातस्तृतीयोदेशकः, सम्प्रति चतुर्थ उद्देशः प्रारभ्यते, तत्रास्यादिसूत्रस्य कृतीयोदेशकान्तिमसूत्रेण सह कः सम्बन्धस्तत्राह भाष्यकारः- 'आयरिय०' इत्यादि । भाष्यम्-आयरियमाइयाणं, माइप्पभिईण नो पर्य देज्जा ।
उउबद्धाइयकाले, विहरेज्जा तेसि विहिमेस्थ ॥१॥ छाया-आचार्यादीनां मायिप्रभृतीनां नो पदं दद्यात् ।
ऋतुबद्धादिककाले विहरेयुस्तेषां विधिमत्र ॥ १॥ व्याख्या-'आयरियमाइयाणं' इति । पूर्व तृतीयोदेशकस्यान्तिमसूत्रे माणिप्रभृतीनां मायिमृषावाद्यशुचिपापजीविनाम् आचार्यादीनाम् आचार्यस्योपाध्यायस्य प्रवर्तकस्य स्थविरस्य गणिनो गणधरस्य गणावच्छेदकस्य चेत्यर्थः पदम् आचार्योपाध्यायादिपदं यावज्जीवं नो दद्यात् इति प्रोक्तम् , ते च 'उउबदाइयकाले' ऋतुबद्धादिकाले हेमन्तग्रीष्मकाले वर्षावासका च 'विहरेज्जा' विहरेयुः विचरेयुः तदा कथं विचरेयुः ? इति तेषां विचरणस्य विधिम् अत्र चतुर्थोद्देशकस्यादौ कथयिष्यते, इत्येष पूर्वापरोद्देशकयोः सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य चतुर्थोद्देशकस्येदमादौ आचार्योपाध्यायादिविषयकं सूत्राष्टकमाह-'नो कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइआयरिय उवज्झायस्स एगाणियस्स हेमंतगिम्हामु चरित्तए ॥१॥ कप्पइ आयरियउवज्झायस्स अप्पबिइयस्स हेमंतगिम्हासु चरित्तए ॥ सू० २॥ नो कप्पइ गणावच्छेययस्स अप्पबिइयस्स हेमंतगिम्हासु चरित्तए । सू०३॥ कप्पइ गणावच्छेययस्स अप्पतइयस्स हेमंतगिम्हासु चरित्तए ॥ सू० ४॥ नो कप्पइ आयरियउवज्झायस्स अप्पबिइयस्स वासावासं वत्थए । सू० ५॥ कप्पइ आयरियउवज्झायस्स अप्पतइयस्स वासावासं वत्थए ॥ सू० ६॥ नो कप्पड़ गणावच्छेययस्स अप्पतइयस्स वासावासं वत्थए ॥सू० ७॥ कप्पइ गणावच्छेययस्स अप्पचउत्थस्स वासावासं वत्थए ॥ सू० ८॥
छाया-नो कल्पते आचार्योपाध्यायस्य एकाकिनो हेमन्तग्रीष्मेषु चरितुम्॥सू०१॥ कल्पते आचार्योपाध्यायम्य आत्मद्वितीयस्य हेमन्तग्रीष्मेषु चरितुम् ॥ स० २॥ नो कल्पते गणावच्छेदकस्य आत्मद्वितीयस्य हेमन्तग्रीष्मेषु चरितुम् ॥ सू० ३॥ कल्पते गणावच्छेदकस्य आत्मतृतीयस्य हेमन्तग्रीष्मेषु चरितुम् ॥ सू०४॥ नो कल्पते आचार्योपाध्यायस्य आत्मद्वितीयस्य वर्षावासं वस्तुम् ॥ सू० ५॥