________________
९०६
व्यवहारसूत्रे
अथ भिक्षुकादीन् सर्वान् संगृह्य बहुवचनेन सप्तमं समुच्चयसूत्रमाह - 'बहवे भिक्खुणो' इत्यादि ।
सूत्रम् - बहवे भिक्खुणो बहवे गणावच्छेयया बहवे आयरियउवज्झाया बहुबभागमा बहुसो बहुसु अगाढागाढेसु कारणे माई मुसावाई असुई पावजीवी जावज्जीवा तेसिं तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगतं वा उद्दित्तिए वा धारितए वा ॥ सू० २९ ॥
॥ ववहारकप्पे तइओ उद्देसो समत्तो ॥ ३ ॥
छाया - बहवो भिक्षुका बहवो गणावच्छेदकाः बहव आचार्योपाध्याया बहुश्रुताः बह्रागमाः बहुशो बहुषु आगाढागाढेषु कारणेषु मायिनो मृषावादिनः अशुचयः पापजीविनो यावज्जीवं तेषां तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद् गणावच्छेदकत्वं बा उद्देष्टु ं वा धारयितुं वा ॥ सू० २९ ॥
॥ व्यवहारकल्पे तृतीय उद्देशः समाप्तः ॥ ३॥
भाष्यम् – 'बहवे भिक्खुणो' बहवो भिक्षुकाः तथा 'बहवे गणावच्छेयया' बहवोऽनेके गणावच्छेदकाः 'बहवे आयरियउवज्झाया' बहवोऽनेके आचार्योपाध्यायाः । शेषं सर्वं भिक्षुबहुत्वमधिकृत्य बहुवचनेन भिक्षुसूत्रव्याख्यावद् व्याख्या करणीया । अयं भावः - अनेके भिक्षुका गणविच्छेदका आचार्योपाध्याया बहुश्रुताया अपि अभीक्ष्णं माया - मृषावादादिकं यदि कुर्युः तदा मिक्षुकादीनां सर्वेषामपि मृषावादादिजनितापराधेन जीवनपर्यन्तमेषामाचार्यादिगणावच्छेदका - सपदव्या दानं धारणं च न कल्पते इति ॥ सू० २९ ॥
इति श्री विश्वविख्यात -जगद्दल्लभ-प्रसिद्धवाचक - पञ्चदशभाषा कलितललितकलामालापकप्रविशुद्ध गद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनाचार्य” – पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलालव्रति विरचितायां "व्यवहारसुत्रस्य” भाष्यरूपायां व्याख्यायां तृतीय उद्देशकः समाप्तः ॥३॥