SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ३ ० २६-२९ भिक्षुकादीनां बहुशो मायादिसेवने पदनिषेधः १०१ अथ चतुर्थ भिक्षुमधिकृत्य बहुवचनेन सूत्रमाह-'बहवे भिक्खुणो' इत्यादि । . सूत्रम्--बहवे भिक्खुणो बहुस्सुया बब्भागमा बहुसो बहुसु आगाढागाढेसु कारणेसु माई मुसावाई असुई पावजीवी जावज्जीवाए तेसिं तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उदिसित्तए वा धारित्तए वा ॥ सू० २६॥ छाया-बहवो भिक्षवः बहुश्रुताः बह्वागमाः बहुशो बहुसु आगाढागाढेषु कारणेषु मायिनो मृषावादिनोऽशुचयः पापजीविनो यावज्जीवं तेषां तत्प्रत्यायकं नो कल्पते आचार्यत्व वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारीयतुं वा ॥ सू० २६॥ भाष्यम् -- 'बहवे भिक्खुणो' बहवोऽनेके भिक्षवः । इदमपि सूत्रं भिक्षुसूत्रवदेव व्याख्येयम् । विशेष एतावानेव यत् तत्रैकवचनमाश्रित्य व्याख्या कृता, अत्र बहुवचनमाश्रित्य व्याख्या कर्तव्येति ॥ सू० २६ ॥ अथ बहुवचनेन गणावच्छेदकविषयं पञ्चमसूत्रमाह-'बहवे गणावच्छेयया' इत्यादि । सूत्रम् -बहवे गणावच्छेयया बहुस्सुया बब्भागमा बहुसो बहुमु आगाढागाढेसु कारणेसु माई मुसाबाई असुई पावजीवी जावज्जीवाए तेसिं तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उद्दिसित्तए वा धारित्तए वा ॥ ९० २७॥ छाया-बहवो गणावच्छेदकाः बहुश्रुताः बह्वागमाः बहुशो बहुसु आगाढागा. ढेषु कारणेषु मायिनो मृषावादिनः अशुचयः पापजीविनः यावज्जीवं तेषां तत्प्रत्ययिक नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुवा धारयितुं वा ॥सू० २७॥ भाष्यम्-'बहवे गणावच्छेयया' बहवोऽनेके त्रिचतुःप्रभृतयः गणावच्छेदकाः । शेषं सर्व बहुवचनेन भिक्षुसूत्रवदेव व्याख्येयम् । सू० २७ ॥ अथा चार्योपाध्यायविषयं षष्ठं सूत्रमाह-'बहवे आयरियउवज्झाया' इत्यादि । सूत्रम्-बहवे आयरियउवज्झाया बहुस्सुया बब्भागमा बहुसो बहुसु आगाढागाढेसु कारणेसु माईं मुसाबाई असुई पावजीवी जावज्जीवाए तेसिं तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उदिसित्तए वा धारित्तए वा ॥ सू० २८ ॥ छाया बहवः आचार्योपाध्यायाः बहुश्रुताः बागमाः बहुशो बहुषु आगाढागाढेषु कारणेषु मायिनो मृषावादिनोऽशुचयः पापजोविनो यावज्जोवं तेषां तत्प्रत्ययिक नो कल्पते आचार्यत्वं वा यावत् गणावच्छेदकत्वं वा उद्दष्टुवा धारयितुं वा ॥ सू० २८॥ भाष्यम्- 'बहवे आयरियउवज्झाया' बहवोऽनेके त्रिचतुःप्रमृतयः प्राचार्योपाध्यायाः आचार्याः उपाध्यायाश्च । शेषं सर्व बहुवचनेन भिक्षुसूत्रवदेव व्याख्येयम् ॥ सू० २८ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy