________________
१००
व्यवहारसूत्रे
बच्छेयगत्तं वा आचार्यत्वमाचार्यपदवीं वा यावत् उपाध्यायत्वं वा प्रवर्त्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणधरत्वं वा गणावच्छेदकत्वं वा 'उद्दिसित्तए वा धारितए वा' उद्देष्टुमनुज्ञातुं .वा स्वस्य वा आचार्यपदवीं धारयितुं तस्य भिक्षोर्न कल्पते || सू०२३||
अथ सप्तसु सूत्रेषु द्वितीयं गणावच्छेदकविषयं सूत्रमाह-- 'गणावच्छेइए' इत्यादि
सूत्रम् - गणावच्छेइए बहुस्सुए बभागमे बहुसो बहुसु आगाढागाढेसु कार - सु माई मुसावाई असुई पावजीवी जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं व जाव गणावच्छेयगत्तं वा उद्दिसित्तए वा धारितए वा ॥ सू० २४ ॥
छाया -- गणावच्छेदकः बहुश्रुतः बह्नागमः बहुशः : बहुसु आगाढागाढेषु कारणेषु मायी मृषावादी अशुचिः पापजीवी यावज्जीवं तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावत् गणावच्छेदकत्वं वा उद्देष्टु वा धारयितुं वा ॥ सु० २४ ॥
भाष्यम् – 'गणावच्छेइए' गणावच्छेदकः गणव्यवस्थाकारकः 'बहुस्सुए भाग मे' बहुश्रुतः बह्नागमः पूर्वोक्तस्वरूपः 'बहुसो' बहुशोऽनेकवारम् 'बहुसु आगाढागाढेसु कारणेसु इत्यादि शेषं सर्व भिक्षुसूत्रवदेव व्याख्येयम् । अयं भावः य -यदि गणावच्छेदको बहुश्रुतो बह्नागमो - ऽपि किमपि कारणमासाद्यापि बहुशो मायिमृषावादिप्रभृतिविशेषणविशिष्टो भवेत् तदा तस्य तत्कारणमाश्रित्य यावज्जीवमाचार्यादिपदवीदानं पुनः कथमपि न कल्पते ॥ सू० २४ ॥
साम्प्रतं तृतीयमाचार्योपाध्यायविषयं सूत्रमाह - ' आयरियउवज्झाए' इत्यादि ।
सूत्रम् - आयरियउवज्झाए बहुस्सुए बभागमे बहुसो बहुसु आगाढागाढेसु कारसु माई मुसावाई असुई पावजीवी जावज्जीवाए तस्स तप्पत्तियं नो कप्पर आयरियत्तं वा जाव गणात्रच्छेयगत्तं वा उद्दिसित्तए वा धारितए वा ।। सू० २५ ॥
छाया - आचार्योपाध्यायो बहुश्रुतो बह्नागमो मायी मृपावादी अशुचिः पापजीवी यावज्जीवं तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्त्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० २५ ॥
भाष्यम् – 'आयरियउवज्झाए' इति । इदमपि सूत्रं भिक्षुसूत्रवदेत्र व्याख्येयम् । अयं भावः - आचार्यः उपाध्यायो वा बहुश्रुतो बह्वागमोsपि यं कमपि कारणविशेषमासाद्यापि किं पुनरकारणकं बहुशो मृषाभाषणादिकं करोति तस्य मृषावादादिविशिष्टस्याचार्यस्य उपाध्यायस्य वा मृषावादित्वप्रत्ययिकं यावज्जीवं पुनराचार्यादिपदवीदानं धारणं वा कथमपि न कल्पते इति ॥ सू० २५ ॥