SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ३ सू० २३-२५ बहुशो मायामृषादिसेवने आचार्यादिपदनिषेधः १ त्यागपरित्यागपरकमिति पञ्च सूत्राणि मैथुनसेवनविषयाणि सन्तीति ५ । एवमेवाऽवधावनमधिकृत्यैकं भिक्षुसूत्रम् १, पदाऽपरित्यागपरित्यागमाश्रित्य गणावच्छेदकसूत्रद्वयम् ३, आचार्योपाध्यायसूत्रद्वयं चेत्यवधावनपरकाणि पञ्चसू त्राणि ५। एवं दश सूत्राणि त्रयोदशसूत्रादारभ्य द्वाविंशतिसूत्रपर्यन्तामि प्रायः समानव्याख्यानानि सन्तीत्यवधेयम् । अयं भावः-स्वपदाऽनिक्षेपणसूत्रद्विके गणावच्छेदकाचार्योपाध्यायाः प्रत्यागता अनर्पिताजावर्गाजापालकवत् यावज्जीवमाचार्यादिपदानामनीं एव । स्वपदनिक्षेपणसूत्रद्वये तु अपिताजावर्गाजापालकदृष्टान्तेन पूर्वोक्तप्रकारेण त्रिसंवत्सरातिक्रमे आचार्यादिपदानां योग्याः भवन्तीति ॥ सू०२२ ॥ पूर्वमवधावनमधिकृत्य भिक्षुप्रभृतीनि पञ्च सूत्राणि व्याख्यातानि, साम्प्रतं मायादियुक्तबहुश्रुतबह्वागमभिक्षुगणावच्छेदकाचार्योपाध्यायविषयाणि सप्त सूत्राणि वक्ष्यन्ते, तत्रैषामेवैकवचनमाश्रित्य त्रीणि सूत्राणि ३ । एवं बहुवचनमाश्रित्य त्रीणि सूत्राणि ६ । तथा एषामेव समुच्चयेन बहुवचनमाश्रित्येकं सूत्रम् ७ । एवं सप्त सूत्राणि कथयिष्यन्ते, तत्र सप्तसु सूत्रेषु प्रथममेकवचनेन भिक्षुसूत्रमाह--'भिक्खू य बहुस्सुए' इत्यादि । सूत्रम्-भिक्खू य बहुस्सुए बब्भागमे बहुसो बहुसु आगाढागाढेसु कारणेमु भाई मुसाबाई असुई पापजीवी, जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगतं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० २३॥ छाया-भिक्षुश्च बहुश्रुतो बह्वागमः बहुशो बहुषु आगाढागाहेषु कारणेषु मायी मृषावादी अशुचिः पापजीवी यावज्जीवं तस्य तत्प्रयायकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्व वा उद्देष्टुं वा धारयितुं वा ॥ सू० २३ ॥ भाष्यम्-'भिक्खू य' 'भिक्षुश्च 'बहुस्सुए' बहुश्रुतः बहु-अधिकं श्रुतं सूत्रमभ्यासे यस्य स बहुश्रुतः अनेकप्रकारकसूत्रज्ञातेत्यर्थः । तथा 'बब्भागमे बह्वागमः बहुरधिक आगमः आगमार्थपरिज्ञानं यस्य स बह्वागमः अनेकाऽनेकविधसूत्रार्थतदुभयज्ञातेत्यर्थः 'बहुसु' बहुषु बहुप्रकारकेषु 'आगाढागाढेसु कारणेसु' आगाढागाढकारणं यत् सचित्ताचित्तविषये विवादास्पदीभूतमपि कुलगणसंघस्याहारोपधिशय्याद्युपग्रहे वर्तते, तादृशेषु आगाढागाढेषु कारणेषु 'बहुसो' बहुशोऽनेकवारम् ‘माई' मायी मायावी परच्छिद्रान्वेषित्वात्, तेन मायित्वेन 'मुसावाई' मृषावादी असत्यभाषणकारी अत एव 'असुई' अशुचिः अशुद्धाऽऽहारादिसेवनादशुद्धान्तःकरणः, अत एव 'पावजीवी' पापजीवी पापकर्मणा जीवनशीलः मायादिकपटमाश्रित्य बहुशोऽकृत्यकरणात् पापिष्ठ इत्यर्थः । एतादृशो यो भिक्षः 'तस्स' तस्य भिक्षोः 'जावज्जीवाए' यावज्जीवं जीवनपर्यन्तम् 'तप्पत्तियं' तत्प्रत्ययिकं मायामृषादिकारणकम् 'नो कप्पई' नो कल्पते आयरियत्तं वा जाव मणा
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy