SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ व्यवहार छाया-आचार्योपाध्यायः आचार्योपाध्यायत्वमनिक्षिप्य अपधावेत् वाधज्जीवं तस्य तत्प्रत्यायकं नो कल्पते आचार्यत्वं वा उपाध्यायत्वं पा यावद् गणापच्छेदकत्व वा उद्देषु वा धारयितुं वा ॥ सू० २१ ॥ भाष्यम्-'आयरिय उवज्झाए' आचार्योपाध्यायः, आचार्यश्च उपाध्यायश्च 'आयरिय उवज्झायत्त अनिक्खिवित्ता' आचार्यत्वमाचार्यपदवीम्, तथा उपाध्यायत्वमुपाहायपदवीम् अनिक्षिप्याऽपरित्यज्य 'ओहाएज्जा' अवधावेत् तदा यावज्जीवं तस्य नो कल्पते आचार्योपाध्यायत्वमुद्देष्टुं वा धारयितुं वेति अनिक्षिप्तपदवीकमैथुनसेव्याचार्योपाध्यायषोडशसूत्रवद् व्याख्या कर्त्तव्येति ॥ सू०२१ ॥ - सूत्रम्-आयरियउवज्झाए आयरियउवज्झायत्त निक्खिवित्ता ओहाएज्जा तिण्णि संबच्छराणि तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगतं वा उदिसित्तए वा धारित्तए वा, तिहिं संवच्छरेहिं वीइक्कंतेहिं चउत्थगंसि संवच्छरंसि पट्ठियंसि ठियस्स उवसंतस्स उवरयस्स पडि विरयस्स निविगारस्स एवं से कप्पड़ आयरित्तं वा जाव गणावच्छेयगत्तं वा उदिसित्तए वा धारित्तए वा ॥ सू०२२॥ छाया-आचार्योपाध्यायः आचार्योपाध्यायत्वं निक्षिप्य अवधावेत् त्रीणि संवत्सराणि तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा, त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थके संवत्सरे प्रस्थिते स्थितस्य उपशान्तस्य उपरतस्य प्रतिविरतस्य निर्विकारस्य एवं तस्य कल्पते आचार्यत्वं वा यावत् गणावच्छेद कत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० २२॥ भाष्यम् –'आयरियउवज्झाए' आचार्योपाध्यायः, आचार्यः उपाध्यायश्च 'आयरियउवज्झायत्तं' आचार्योपाध्यायत्वम् आचार्यत्वमुपाध्यायत्वं च, स्वकीय पदमाचार्यादि पदम् तत् 'निक्खिवित्ता, निक्षिप्य परित्यज्य 'ओहाएज्जा' अवधावेत् । शेष सर्व निक्षिप्तपदमैथुनसेव्याचार्योपाध्यायसप्तदशसूत्रवद् व्याख्येयम् । ___ स्वपदस्यानिक्षेपणे निक्षेपणे च गणावच्छेदकाचायोपाध्यायविषये अजापालकदृष्टान्तद्वयं यथा-एकोऽजापालकः स्वकीयमजावर्ग कस्मै असमर्प्य गतः तस्याजावर्गश्चोरेण चोरितः । स पुनरावृत्तो यावज्जीवं सोऽजावर्ग न लब्धवान् । अन्योऽजापालकः स्वकीयम् अजावर्ग कस्मै समयं गतः । ततः प्रतिनिवृत्तेन तेन यथावस्थितोऽजावर्गो लब्धः। एवं गणावच्छेदकाचार्योपाध्यायविषयेऽपि भावनीयम् । अत्र मैथुनधर्मप्रतिसेवनमधिकृत्य पञ्च सूत्राणि सन्ति, तत्रैकं सूत्रं सामान्येन भिक्षुविषयकम् १। गणावच्छेदकपदापरित्यागमधिकृत्यैकं गणावच्छेदकसूत्रम् २ । स्वपदपरित्यागमधिकृत्य द्वितीयं गणावच्छेदकसूत्रम् ३ एवमेव आचार्योपाध्यायसूत्रद्वयं पदाऽपरि
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy