SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ३ सू० १९-२२ अवधावितस्य पुनरागमने पददानविधिः ९७ भाष्यम् – 'गणावच्छेइए' गणावच्छेदकः 'गणावच्छेयगत्तं' गणावच्छेदकत्वम् गणाव - च्छेदकपदवीम् 'अनिक्खिवित्ता' अनिक्षिप्य अपरित्यज्य साधुवेषेणैवेत्यर्थः 'ओहावेज्जा' अवधावेत् मैथुनार्थं देशान्तरं गच्छेत्, गत्वा च तद्वेषेणैव मैथुनं प्रतिसेवते, प्रतिसेव्य पुनरागत्य दीक्षां गृह्णाति तदा 'जावज्जीवाए तस्स' यावज्जीवं जीवनपर्यन्तं तस्य तादृशस्यावधावितस्य पुनर्गृहीतदीक्षस्य 'तप्पत्तियं' तत्प्रत्ययिकं मैथुनार्थमवधावनकारणकम् 'नो कप्पड़' नो कल्पते 'आयरियत्तं वा उवज्झायत्तं वा । इत्यादि सर्वं पूर्वोक्तपदवी सहित मैथुनधर्मसेविगणावच्छेदकसूत्रचतुर्दशवदेव व्याख्येयम् ॥ सू० १९ ॥ सम्प्रति त्यक्तपदवीकगणावच्छेदकस्यावधावनसूत्रमाह - 'गणावगच्छेयए' इत्यादि । सूत्रम् - गणावच्छेयए गणावच्छेयगत्तं निक्खिवित्ता ओहाएज्जा तिष्णि संवच्छराणि तस्स तप्पत्तियं नो कप्पड़ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उद्दि सित्तए वा धारितए वा, तिर्हि संवच्छरेहिं वीइक्कंतेहिं चउत्थगंसि संवच्छरंसि पट्ठियंसि ठियस्स उवसंतस्स उवरयस्स परिविश्यस्स निव्विगारस्स एवं से कप्पर आयरियत्तं वा जाव गणावच्छेयगतं वा द्दित्तिए वा धारितए वा ।। सू० २० ॥ छाया - गणावच्छेदको गणावच्छेदकत्वं निक्षिप्याऽवधावेत् त्रोणि संवत्सराणि तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गुणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं . वा, त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थके संवत्सरे प्रस्थिते स्थितस्य उपशान्तस्य उपरतस्य प्रतिविरतस्य निर्विकारस्य एवं तस्य कल्पते आचार्यत्वं वा यावद्गुणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० २० ॥ भाष्यम् – 'गणावच्छेइए' गणावच्छेदकः गणावच्छेयगत्तं गणावच्छेदकत्वं गणावच्छेदकपदवीम् 'निक्खिवित्ता' निक्षिप्य परित्यज्य 'ओहावेज्जा' अवधावेत् मैथुनसेवनार्थं देशान्तरं प्रत्यवधावनं कुर्यात्, तत्र मैथुनं प्रतिसेवते इति भावः । प्रतिसेव्य च शुभकर्मोदयात् पुनः प्रत्यावृत्य दीक्षितो भवेत्, तदा तस्य 'तिष्णि संवच्छराणि' त्रीणि संवत्सराणि इत्यादि सर्व पदवीपरत्यागपूर्वक मैथुनसेविगणावच्छेदकपञ्चदशसूत्रवद् व्याख्येयम् ॥ सू० २० ॥ पूर्व पदवीसहित पदवी परित्यागपूर्व कावधावकगणावच्छेदकविषयकं सूत्रद्वयमुक्त्वा सम्प्रति तद्विषयकमेवाऽऽचार्योपाध्याय - सूत्रद्वयमुच्यते, तत्र प्रथमं पदवी सहितावधावनविषयकमाचार्योपाध्यायसूत्रमाह- 'आयरियउवज्झाए' इत्यादि । सूत्रम् - आयरियउवज्झाए आयरियउवज्झायत्तं अनिक्खिवित्ता ओहाएज्जा जावज्जीवre तस्स तप्पत्तियं नो कप्पड़ आयरियत्तं वा जाव गणावच्छ्रेयगतं वा उद्दित्तिए वा धारितए वा ॥ सू० २१ ॥ व्य. १३
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy