SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ९६ व्यवहारस् सूत्रम् - भिक्खू य गणाओ अवक्कम्म ओहायइ, तिष्णि संवच्छराणि तस्स तप्पaियं नो कप्पर आयरियत्तं वा जाव गणावच्छेयगत्तं वा उद्दिसित्तए वा धारितए वा, तिहिं संच्छरेहिं बीइक्कंतेहिं चउत्थगंसि संच्छरंसि पट्ठियंसि ठियस्स उवसंतस्स उत्ररयस्स पडिविरयस्स निव्विगारस्स एवं से कप्पर आयरियतं वा जाव गणावच्छेयगत्तं वा उद्दिसितए वा धारितए वा ॥ सू० १८ ॥ छाया - भिक्षुश्च गणादवक्रस्याऽवधावति, त्रीणि संवत्सराणि तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा, त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थ के संवत्सरे प्रस्थिते स्थितस्योपशान्तस्य उपरतस्य प्रतिविरतस्य निर्विकारस्य एवं तस्य कल्पते आचार्यत्वं वा यावद्गुणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० १८ ॥ " भाष्यम् – 'भिक्खू य' भिक्षुश्च 'गणाओ अवक्कम्म' गणाद् अवक्रम्य 'ओहायइ' अवधावति-"अहं वेदोदयं धारयितुं न शक्नोमि गणस्थितेन मया मैथुनसेवनं न कर्तव्यं प्रवच नोड्डाहादिसद्भावात् मा भवतु प्रवचनोड्डाहः, अत्राहं साधुवेषेण विहरन् धर्मकथाप्रबन्धादिरनेकशः कृत इति अत्र निवासिनो जना मां जानन्ति देशान्तरे च सुखेन मैथुनं सेविष्ये" इति बुद्धया सदोरकमुखवस्त्रिकारजोहरणादिरूपं द्रव्यलिङ्गं परित्यज्य मैथुनसेवनभावनया देशान्तरं गच्छति, तत्र मैथुनधर्म प्रतिसेवते ततः कदाचिद्वेदोपशमनानन्तरं शुभकर्मोदयात् पुनरागत्य दीक्षां गृहीत्वा संयतो भत्ता 'स' तस्य उपशान्तवेदस्य पुनर्दीक्षितस्य 'तिष्णि संवच्छराणि' त्रीणि संवत्सराणि यद्दिवसे संयमो गृहीतः तदिवसादारभ्य वर्षत्रयं यावत् 'तप्पत्तियं' तत्प्रत्ययिकम् अवधावनकारणकम् अवधावनकारणमाश्रित्येत्यर्थः 'नो कप्पड़' नो कल्पते 'आयरियतं वा जाव गणावच्छेयगतं वा' आचार्यत्वं वा यावत् उपाध्यायत्वं वा प्रवर्त्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणधरत्वं वा गणावच्छेदकत्वं वा 'उद्दिसित्तए वा' उद्देष्टुम् अनुज्ञातुं वा 'धारितए वा' धारयितुं वा । इत्यादि शेषं सर्वे मैथुन प्रतिसेवनविषयकत्रयोदशभिक्षुसूत्रवदेव व्याख्येयम् ।। सू० १८ ॥ अवधावनविषयकं भिक्षुसूत्रमुक्त्वा सम्प्रति पदवीसहितावधावनविषयकं गणावच्छेदकसूत्रमाह - 'गणावच्छेयए' इत्यादि । सूत्रम् - गणात्रच्छेयए गणावच्छेयगत्तं अनिक्खिवित्ता ओहाएज्जा जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगतं वा उद्दिसित्तए वा धारितए वा ।। सू० १९ ॥ छाया - गणावच्छेदको गणावच्छेदकत्वं अनिक्षिप्यावधावेत् यावज्जीवं तस्य तत्प्रत्ययिकंनो कल्पते आचार्यत्वं वा यावद् गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू. १९ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy