SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ३ सू० १६-१८ अवधावितभिक्षुकादेः पुनरागमने पदविधिः ९५ छाया --- आचार्योपाध्याय आचार्योपाध्यायत्वम् अनिक्षिप्य मैथुनधर्म प्रतिसेवेत यावज्जीवं तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावत् गणावच्छेदकत्वं वा उद्देष्टु बा धारयितुं वा ॥ सू० १६ ॥ भाष्यम् – 'आयरिय उवज्झाए' आचार्योपाध्यायः, आचार्यश्च उपाध्यायश्चेत्यर्थः 'आयरियउवज्झायत्तं' आचार्योपाध्यायत्वम् आचार्य पदमुपाध्यायपदं च ' अनिक्खिवित्ता' अनिक्षिप्य अपरित्यज्यैव । इत्यादि सर्वं गणावच्छेदकस्य चतुर्दशसूत्रवदेव व्याख्येयम् ॥ सू० १६ ॥ आचार्योपाध्याय पदसहितस्याचार्यादिपददानविषयकं सूत्रं व्याख्याय साम्प्रतं त्यक्ततत्पदस्य द्विधिमाह - 'आयरियउवज्झाए' इत्यादि । सूत्रम् - आयरियउवज्झाए आयरियउवज्झायत्तं निक्खिवित्ता मेहुणधम्मं पडि सेवेज्जा तिणि संवच्छ्राणि तस्स तप्पत्तियं नो कप्पइ आयरियतं वा जाव गणावच्छेयगतं वा उद्दिसित्तए वा धारितए वा, तिहिं संवच्छरेहिं वीइक्कतेहिं चउत्थगंसि सवच्छरंसिपद्वियंसि ठियस्स उवसंतस्स उवरयस्स पड़िविरयस्स णिव्विगारस्स एवं से कष्पइ आयरियत्तं वा जाव गण वच्छेयगत्तं वा उद्दित्तिए वा धारितए वा ॥ सू० १७ ॥ छाया - आचार्योपाध्यायः अचार्योपाध्यायत्वं निक्षिप्य मैथुनधर्म प्रतिसेवेत त्रीणि संवत्सराणि तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टु धारयितुं वा त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थके संवत्सरे प्रस्थिते स्थितस्य उपशान्तस्य उपरतस्य प्रतिविरतस्य निर्विकारस्य एवं तस्य कल्पते आचार्यत्वं वा यावद्गुणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० १७ ॥ भाष्यम् – 'आयरियउवज्झाए' आचार्योपाध्यायः, आचार्यश्चोपाध्यायश्चेत्यर्थः । 'आयरियउवज्झायत्तं निक्खिवित्ता' आचार्यत्वमाचार्य पदवीम् उपाध्यायत्वमुपाध्यायपदवीं च निक्षिप्य परित्यज्य गृहस्थो भूत्वेत्यर्थः 'मेहुणधम्मं' मैथुनधर्म 'पडि सेवेज्जा प्रतिसेवेत । इत्यादि शेषं सर्वं त्रयोदशभिक्षुसूत्रवदेव व्याख्येयम् ॥ सू० १७ ॥ 9 पूर्वं मैथुनधर्मसेवनविषयाणि पञ्च सूत्राणि, तत्र भिक्षुविषयकमेकं गणावच्छेदकस्य स्वपदात्यागत्यागविषयकं सूत्रद्वयम्, एवमाचार्योपाध्यायस्य तादृशमेव सूत्रद्वयम् एवं पञ्च सूत्राणि व्याख्याय साम्प्रतमनेनैव प्रकारेणाऽवधावनविषयाणि भिक्षुकादीनां पञ्च सूत्राणि प्रोच्यन्ते तत्र प्रथमं भिक्षुसूत्रमाह–‘भिक्खु य' इत्यादि ।
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy