SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ व्यवहार दकपदयुक्त एव साधुवेषेणैवेत्यर्थः 'मेहुणधम्म पडिसेवेज्जा' मैथुनधर्म प्रतिसेवेत तदा 'जावज्जीवाए' यावज्जीवं जीवनपर्यन्तं 'तस्स' तस्य शुभकर्मोदयात् पुनर्गृहीतदीक्षस्य 'तप्पत्तियं' तत्प्रत्ययिकं तत्कारणम् तत्कारणमाश्रित्येत्यर्थः 'नो कप्पइ' नो कल्पते 'आयरियत्तं वा' आचार्यत्वं वा 'जाव गणावच्छेयगत्तं वा' यावत् उपाध्यायत्वं प्रवर्तकत्वं स्थविरत्वं गणित्वं गणधरत्वं गणावच्छेदकत्वं वा 'उद्दिसित्तए वा' उदेष्टुमनुज्ञातुं वा 'धारित्तए वा' स्वयं धारितुं वा नो कल्पते । मैथुनसेवनाऽनन्तरं पुनर्दीक्षितस्याऽयं विधिविज्ञेय इति भावः ॥ सू० १४ ॥ स्यक्तगणावच्छेदकपदस्य मैथुनसेवने अचार्यादिपददानविधिमाह-'गणावछेयए' इत्यादि । सूत्रम्-गणावच्छेयए गणावच्छेयत्त निक्खिवित्ता मेहुणधम्म पडिसेवेज्जा तिण्णि संवच्छराणि तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उहिसित्तए वा धारित्तए वा, तिहिं संवच्छरेहिं वीइतेहिं चउत्थगंसि संवच्छरंसि पट्ठियंसि ठियस्स उवसंतस्स उवरयस्स पडिविरयस्स निविगारस्स एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेयग वा उदिसित्तए वा धारित्तए वा ।। सू० १५॥ __ छाया-गणावच्छेदको गणावच्छेदकत्वं निक्षिप्य मैथुनधर्म प्रतिसेवेत त्रीणि संवत्सराणि तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्व वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारियितु वा त्रिषु संवत्सरेषु व्यतिक्रान्तेपु चतुर्थके संवत्सरे प्रस्थिते स्थितस्योपशान्तस्योपरतस्य प्रतिविरतस्य निर्विकारस्य एवं तस्य कल्पते आचार्यत्वं वा यावरणावच्छेदकत्व वा उद्देष्टुं वा धारयितु वा ॥ सू० १५ ॥ भाष्यम्-'गणावच्छेयए' गणावच्छेदकः 'गणावच्छेयगत्तं' गणावच्छेदकत्वं स्वकीयं गणावच्छेदकपदं 'निक्खिवित्ता' निक्षिप्य मुक्त्वा अन्यस्मै दत्त्वा गृहस्थवेषेणेत्यर्थः 'मेहुणधम्म पडिसेवेज्जा' मैथुनधर्म प्रतिसेवेत, कश्चित् गणावच्छेदको गणावच्छेदकत्वं स्वकीयं पदं परित्यज्य ततो मैथुनधर्म प्रतिसेवेत तदा तस्य पुनर्दीक्षितस्य 'तिणि संवच्छराणि' त्रीणि संवत्सराणि पुनर्दीक्षाग्रहणानन्तरं तदिवसादारभ्य वर्षत्रयं यावत् । शेषं सर्वं त्रयोदशभिक्षुसूत्रवद् व्याख्येयम् ॥ सू०१५॥ गणावच्छेदकस्य स्वपदसहितासहितभेदेन मैथुनसेवने आचार्यादिपदाऽदानदानविषयक सूत्रद्वयं कथितम् , संप्रति अचार्योपाध्याययोरपि विषये तदेव सूत्रद्वयं व्याख्यातुं प्रथममनिक्षितपदविषयकं सूत्रमाह -'आयरियउवज्झाए' इत्यादि । सूत्रम् -आयरियउवज्झाए आयरियउवज्झायत्तं अनिक्खिवित्ता मेहुणधम्म पडिसेवेज्जा जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगतं वा उद्दिसित्तए बा धारित्तए वा ॥ सू० १६ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy