________________
भाष्यम् उ० ३ सू० १३-१५ मैथुनसेविभिक्षुकादेः पुनरागमने पददानविधिः ९३ च भाषते सूत्रार्थयोरुपदेष्टा गणी भवति ५। गणधरः गणस्य स्मारणावारणाकारकः ६। गणावच्छेदकस्तु यः परमादिशति, श्रमणसमुदायस्य गणवासिनः संरक्षणं करोति, तथा साधुसमुदाय गृहीत्वा तदाधाराय नवीनक्षेत्रस्योपध्युपकरणादीनां च गवेषणार्थमन्यान्यजनपदे सम्यक् विहृत्य गच्छार्थमवाहोपग्रहादिकं करोति स गणावच्छेदकः कथ्यते ७ । एतत् पूर्वोक्तं सर्वमाचार्यादि. पदसमूहम् 'उद्दिसित्तए वा धारित्तए वा' उद्देष्टुं वा अनुज्ञातुमित्यर्थः धारयितुं वा तस्य स्वयं धारयितुं वा नो कल्पते इति किन्तु-तिहिं संवच्छरेहि' अत्र तृतीया सप्तम्यर्थस्य द्योतका ततश्च पुनर्गृहीतदीक्षापर्यायस्य त्रिषु वर्षेषु 'वीइक्कतेहिं' व्यतिक्रान्तेषु गतेषु वर्षत्रयेष्वित्यर्थः यस्मिन् दिने पुनर्दीक्षां गृहीतवान् तदिवसादारम्य यावत्पर्यन्तं वर्षत्रयं परिसमाप्तं भवेत् इति भावः 'चउन्थगंसि संवच्छरंसि' चतुर्थे संवत्सरे 'पट्टियंसि' प्रस्थिते संप्राप्ते चतुर्थे वर्षे प्रवतितुमारब्धे सति 'ठियस्स' स्थितस्य स्थितपरिणामस्य, पुनः किंविशिष्टस्य ? तत्राह-'उवसंतस्स' उपशान्तस्य उपशान्तवेदोदयस्य, तच्चोपशान्तत्वं मैथुनविषयक प्रवृत्तिप्रतिषेधमात्रेणापि संभवति ताह-'उवरयस्स' उपरतस्य मैथुनाभिलाषात् प्रतिनिवृत्तस्य, मैं थुनाभिलाषप्रतिनिवृत्तत्वं तु दाक्षिण्यवशमानतोऽपि भवितुमर्हति तत आह-'पडिविरयस्स' प्रतिविरतस्य प्रति-मैथुनाभिलाषप्रातिकूल्येन विरतः तद्विषयकविरतिमान् इति प्रतिविरतः तस्य, प्रतिविरतस्य, एतादृशप्रतिविरतत्वं विकाराऽदर्शनमात्रेणापि संभवेत् तत्राह-'णिघिगारस्स' निर्विकारस्य लेशतोऽपि मैथुनाभिलाषविकाररहितस्य श्रमणस्य ‘एवं से कप्पइ आयरियत्तं वा' एवं पूर्वोक्तप्रकारके श्रमणे ज्ञाते सति चतुर्थवर्षारम्भे 'वस्तुतोऽयं पूर्वोक्तगुणविशिष्टो जातः' इति निर्णये सतीत्यर्थः तस्य ताहशस्य उपशान्तत्वादिगुणयुक्तस्य श्रमणस्याऽऽचार्यत्वं वा 'जाव गणावच्छेयगत्तं वा' यावत् उपाध्यायत्वं वा प्रवर्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणघरत्वं वा गणावच्छेदकत्वं वा 'उदिसित्तए वो' उष्टुं वा समनुज्ञातुं वा 'धारित्तए वा' स्वयं वा धारयितुं तस्य कल्पते ॥ सू० १३ ॥
साम्प्रतमपरित्यक्तगणावच्छेदकपदस्य मैथुनसेवने आचार्यादिपदस्य निषेधसूत्रमाह-'गणावच्छेयए' इत्यादि ।
सूत्रम् - गणावच्छेयए गणावच्छेयगतं अनिक्खिवित्ता मेहुणधम्म पडिसेवेज्जा जावज्जीवाए तस्स तप्पत्तिय नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० १४॥
___ छाया-गणावच्छेदको गणावच्छेदकत्वमनिक्षिप्य मैथुनधर्म प्रतिसेवेत यावज्जीवं तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्व वा उद्देष्टुं वा धारयितुं वा ॥ ५० १४ ॥
भाष्यम्-'गणावच्छेयए' गणावच्छेदकः गणस्य साघुसमुदायस्य धारकः 'गणावच्छेयगत्त' गणाव छेदकत्वं स्वस्य गणावच्छेदकपदवीम् 'अनिक्खिवित्ता' अनिक्षिप्याऽपरित्यज्य गणावच्छे