SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ व्यवहार निर्मन्ध्या बहवो गुणाः भवन्तीत्यतो निर्ग्रन्थ्या आचार्योपाध्यायप्रवर्त्तिनी सहितयैव स्थातव्यं न तद्रहितयेति भावः । सू० १२ ॥ . ५२ पूर्वं निर्ग्रन्थनिर्मन्थीभिराचार्यादिनिश्रां विना न स्थातव्यमिति प्रोक्तम्, साम्प्रतं गणान्निर्गत्य प्रतिसेवितमैथुनस्याचार्यादिपददाने विधिमाह - 'भिक्खू य' इत्यादि । सून्नम् - भिक्खू य गणाओ अवक्कम्म मेहुणं पडिसेवेज्जा तिण्णि संवच्छराणि तस्य तप्पत्तियं नो कप्पड़ आयरियतं वा जाव गणावच्छेयत्तं वा उद्दिसित्तए वा धारितए वा, तिहिं संवच्छ रेहिं वीइक्कंतेहिं चउत्थगंसि संवच्छरंसि पट्ठियंसि ठियस्स - उवसंतस्स उवरयस्स पडिविरयस्स णिन्त्रिगारस्स, एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेयत्त वा उद्दिसित्तए वा धारितए वा ॥ सू० १३ ॥ छाया - भिक्षुश्च गणादवक्रम्य मैथुन प्रतिसेवेत त्रीणि संवत्सराणि तस्य तत्प्रस्यय नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा, त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थे संवत्सरे प्रथिते स्थितस्य उपशान्तस्य उपरतस्य प्रतिविरतस्य निर्विकारस्य एवं तस्य कल्पते आचार्यत्वं वा यचित् गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० १३ ॥ भाष्यम् – 'भिक्खू य' भिक्षुश्च 'गणाओ' गणात् स्वकीयगच्छात् 'अवक्कम्म' अवक्रम्य गणाद्वहिर्निःसृत्य साधुवेषं स्वक्त्वेत्यर्थः 'मेहुणं' मैथुनं 'पडिसेविज्जा' प्रतिसेवेत मोहनीयकर्मोदयतो मैथुनप्रतिसेवनं कृतवानित्यर्थः, ततः पश्चात् शुभकर्मोदयाद्भावविपरिणामेन पुनर्दीक्षांगृह्णाति तदनन्तरम् 'तिष्णि संवच्छराणि' त्रीन् संवत्सरान् दीक्षादिवसादारभ्य त्रिसंख्यकानिवर्षाणि यावत् 'तस्स तष्पत्तियं' तस्य पुनर्गृहीतसंयमस्य श्रमणस्य तत्प्रत्ययिकं मैथुनसेवनका - रणकं मैथुनसेवनापराधजनितं कारणमाश्रित्येत्यर्थः 'नो कप्पड़' नो कल्पते 'आयरियतं वा' आचार्यत्वं वा आचार्यस्य गणनायकस्य यत्पदं स्थानं तद्वा 'जाव गणावच्छेयगतं वा' यावत् गणाव - च्छेदकत्वं वा गणावच्छेदकस्य पदमित्यर्थः अत्र यावत्पदेन उपाध्यायत्वस्य प्रवर्त्तकत्वस्य स्थविरस्य गणिनो गणधरस्य च संग्रहो भवतीति तेनाचार्यादारम्यगणावच्छेद पदपर्यन्तं किमपि पदं तस्य दातुं वा पण सम्बन्धः । तत्राचार्यः - यो जघन्यतोऽष्टवर्षप्रत्रज्यापर्यायः श्रमणो निर्ग्रन्थः आचारकुशलः संयम कुशलः प्रबचन कुशलः प्रज्ञप्ति कुशलः संग्रहकुशलः उपग्रहकुशलोऽक्षता चारोऽभिन्नाचारोऽबला चारोऽसंक्लिष्टाचारो बहुश्रुतो बहागमो जघन्येन स्थानसमवायघरः उत्कर्षेण द्वादशाङ्गधैरः स आचार्यः १ । उपाध्यायस्तु यः सूत्रपाठकः सः २ । प्रवर्तकस्तु य आचार्य कथनानुसारेण वैयावृत्यविषये साधून् प्रवर्त्तयति स प्रवर्त्तकः कथ्यते ३ । यः संयमें सीदतः श्रमणान् स्थिरीकरोति उपदेशादिप्रदानेन स स्थैर्यसंपादनात् स्थविर इति कथ्यते ४ | गणी तु स भवति यः सूत्रमर्थं
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy