________________
भाष्यम् उ० ३ स० १२-१३ आचार्यानिश्रया:निम्रन्ध्या अवस्थाननिषेधः ११ यदाचार्यादीनां संस्थापनानन्तरमेव निम्रन्थ्या गणेऽवस्थानं कल्पते ! इति शिष्यस्य प्रश्नः । आचार्यः प्राह-'तिसंगहिया समणी निग्गंथी' त्रिसंगृहीता श्रमणी निर्ग्रन्थी, त्रिभिः संगृहीता संरक्षिता श्रमणी निर्ग्रन्थी भवति । कैत्रिमिः संगृहीता भवति ! तत्राह-'तं जहा' इत्यादि, 'तं जहाआयरिएणं उवज्झाएणं पवित्तिणीए य' तद्यथा-आचार्येण उपाध्यायेन प्रवर्त्तिन्या च आचार्यादीनां त्रयाणां संरक्षणे एव श्रमणीनिर्ग्रन्थीभिरवस्थातव्यमिति । ननु किं कारणमत्र यन्निम्रन्थी त्रिभिः संगृहीता भवति ? अत्राह-आचार्योपाध्यायप्रवर्तिनीरहितायाः स्वपरसमुद्भवा बहवो दोषाः समापतन्ति, तत्र स्वसमुद्भवा दोषा यथा-संरक्षकरहितास्ताः स्वच्छन्दत्वेन स्त्रीस्वभावाद् राजकथादिविकथां कर्तुं प्रवर्तन्ते तेन तासां संयमघातसंभवः । क्रीडाकन्दपोंद्रेकोत्पादिनी वाक्कायचेष्टां वा कुर्वन्ति, बकुशत्वं शरीरोपकरणविभूषाकरणरूपं प्राप्नुवन्ति, इत्याद्यनेके दोषाः समापतन्ति । परसमुद्भवा दोषा यथा-अनायकां निर्ग्रन्थीं विज्ञाय कोऽपि असंयतः पुरुषः स्त्रियो हृदयसौकुमार्यात् तन्मनो विपरिणमय्य तस्या हरणं करोति, तां नीत्वा मातापित्रोर्वा समर्पयति, मातापित्रादयस्तां गृहस्थवेषां कुर्वन्ति । नारीशरीरस्य पुरुषलुब्धकत्वान्न नारी स्ववशा भवितुमर्हति । उक्तश्च--
"जाया पितिवसा नारी, दत्ता नारी पतिव्वसा ।
थेरा पुत्तवसा नारी, नस्थि नारी सयवसा" इति ॥ छाया-जाता पितृवशा नारी, दत्ता नारी पतिवशा।
स्थविरा पुत्रवशा नारी, नास्ति नारी स्वयंवशा ॥ इति । उक्तठचान्यदर्शनेऽपि
"पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्रश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति" ॥ इति ।
अतो निर्ग्रन्ध्या अनाचार्योपाध्यायप्रवर्त्तिन्या न कदाचिदपि भाव्यम् । अत्राऽऽचार्योपाध्यायसंग्रहे इमे गुणाः, तथाहि -यथपि आचार्य उपाध्यायो वा संयतीनां दूरेऽपि वर्तते तथापि दूरस्थस्यापि पुरुषस्य गौरवेण भयेन वा न कोऽपि संयतीनाम् उपसर्ग करोति यदिमा अमुकस्याऽऽचार्यस्योपाध्यायस्य वा संयत्यो वतन्ते इति बुद्धया, प्रत्युत स्वपक्षे परपक्षे वा सुबहुमानं तासां जायते-यदिमा अमुकाचार्योपाध्यायस्याऽऽज्ञावर्त्तिन्यः संयत्यः शुद्धसंयम पालयन्ति अतो बहुमानयोग्या एता इति । अथवा आचार्योपाध्यायभयतस्तासु न काचिदपि संयती आचारक्षति कत्तुं शक्नोति । यदि आचारक्षति कत्तुं प्रवृत्ता भवेत्तदा तृतीया संग्राहिका प्रवर्तिनी तां सावप्टम्भं शिक्षयति - 'यद्येवं करिष्यास तदाऽहमाचार्यस्य उपाध्यायस्य वा समीपे कथयिष्यामी'ति लोकभयेन धर्मभयेन च सा न तथा करोति प्रवर्त्तिन्या आज्ञायां तिष्ठति, इत्यादयनिसंग्रहेऽवस्थाने