________________
९०
व्यवहारस्त्रे
कुर्वन्ति, संयमयोगे सीदतां संयमाध्वनि अप्रवर्त्तमानानामपमाभू भवति तेनाऽधर्मश्रद्धाका भूत्वा गणादपक्रम्य स्वच्छन्दाः परिभ्रमन्ति । केचित्तरुणाः आचार्यपिपासया नास्माकमाचार्यमन्तरेणानुतरो ज्ञानदर्शनचारित्रलाभो भवति तस्मादवश्यमस्माभिरन्याचार्यसमीपे वर्त्तितव्यमित्याचार्यलाभवाञ्छया तेऽप्यन्यत्र गच्छेयुः । केचिद्धर्मश्रद्धालवोऽपि स्मारणावारणादिकर्तुरभावे गच्छान्तरं गच्छेयुरित्यादयस्तरुणदोषाः । तथा मध्यमाः स्थविराश्च केचिदेवं चिन्तयेयुः - यथा सर्वकालमद्यप्रभृति वयं गुरुभिः श्रावकैत्र मानिता आसन्, सम्प्रति गुरूणामभावे नास्त्यन्यः कोऽपि अस्माकमादरसस्कारकारकः, श्रावकेष्वपि न मानं लप्स्यामः इति चिन्तयित्वा स्वापमानभयादन्यत्र गच्छेयुः । यस्मादेते दोषास्तस्मात् नवडहरतरुणैः मध्यमैः स्थविरैश्च साधुभिराचार्योपाध्याय रहितैर्न स्थातव्यम्, अत एव सूत्रे प्रोक्तम्- 'नो से कप्पइ अणायरियउवज्झायत्ताए होत्तए' इति ॥ सू० ११ ॥ पूर्वं निर्ग्रन्थमधिकृत्य नवडहरतरुणसूत्रं कथितम् सम्प्रति निर्ग्रन्थीमधिकृत्य तदेवाह - 'णिग्गंथी णं' इत्यादि ।
"
सूत्रम् -- णिग्गंथीए णं नवडहरतरुणीए आयरियउवज्झाए वीसं भेज्जा नो से कप्पर अणायरियउवज्झायत्ताए होत्तए, कप्पर से पुवं आयरियं उद्दिसावेत्ता तओ उवज्झायं, तओ पच्छा पवित्तिणि, से किमाहु भंते ! तिसंगहिया समणी निग्गंथी तं जहा आयरिएणं उवज्झाएणं पवित्तिणीए य ।। सू० १२ ॥
छाया - निर्ग्रन्ध्याः खलु नवडहरतरुण्याः आचार्योपाध्यायो विष्कम्मेत् नो तस्याः कल्पते अनाचार्योपाध्यायतया भवितुम्, कल्पते तस्याः पूर्वमाचार्यमुद्दिशाप्य तत उपाध्यायम्, ततः पश्चात् प्रवर्तिनीम् । अथ किमाहु भदन्त ! त्रिसंगृहीता श्रमणी निर्ग्रथी तद्यथाभाचार्येण उपाध्यायेन प्रवर्त्तिन्या च ॥ सू० १२ ॥
भाष्यम् – 'णिग्गंथीए णं' निर्ग्रन्थ्याः स्खलु 'नवडहरतरुणीए' नवडहरतरुण्याः तत्र— निर्ग्रन्थसूत्रोक्तस्वरूपाया नवायाः डहरायास्तरण्याश्च - 'आयरियउवज्झाए' आचार्योपाध्यायः आचायसहित उपाध्यायः - आचार्य उपाध्यायश्च 'वीसंभेज्जा' विष्कम्भेत्, विष्वग्भवेद्वा कदाचिद म्रियेत कागतो भवेत् तदा 'नो से कप्पड़' नो तस्याः नवडहरतरुण्याः कल्पते 'अणायरियउवज्झायत्ताए होत्तए 'अनाचार्योपाध्यायतया, आचार्योपाध्याय रहिततया उपलक्षणमेतत् तेन प्रवर्त्तिनी रहिततया चापि न कल्पते गणे स्थातुमिति । किन्तु - ' कप्पड़ से पुव्वं आयरियं उद्दिसावेत्ता' कल्पते तस्याः पूर्वं प्रथमम् आचार्यं गणनायकमुद्दिशाप्य स्थापयित्वा 'तओ उवज्झायं' तत आचार्यस्थापनानन्तरम् उपापाध्यायमुद्देशाप्य स्थापयित्वा 'तओ पच्छा पवित्तिणि' ततः पश्चात् आचार्योपाध्यायस्थापनात् परं प्रवर्त्तिनीं स्थापयित्वा । ततः एतेषां स्थापनानन्तरं नवडहरतरुण्या निर्ग्रन्ध्याः गणे स्थातुं कल्पते, नाऽन्यथा । शिष्यःप्राह - ' से किमाहु भंते' अथ कस्मात् कारणाद् भदन्त । एवं कथ्यते