________________
भाग्यम् उ०३ सू० ११-१२
आचार्याद्यनिश्रया निर्ग्रन्थस्यावस्थाननिषेधः ८९
नो तस्य कल्पते अनाचार्योपाध्यायतया भवितुम् 'से' तस्य निग्रन्थस्य नवस्य डहरस्य तरुणस्य चाऽनाचार्योपाध्यायतया आचार्योपाध्यायविरहिततया भवितुं गणे वर्तितुं स्थातुं व कल्पते । आचार्योपाध्यायरहितः सन् स गणे न वसेत् अनायकस्थितो अनेकदोषसंभवात् तस्मात्कारणात् 'से पुव्वं. आयरियं उहिसावेचा' स नवादिः श्रमणः पूर्व प्रथमतः आचार्य गणनायकम् उद्देश्य गणे . गणनायकं स्थापयित्वा 'तो पच्छा उवज्झायं' ततः पश्चादाचार्यस्य स्थापनाऽनन्तरम् उपाध्यायमुद्देश्य स्थापयित्वा पुनः कल्पते स्थातुमिति भावः । एवमाचार्योपाध्यायस्य विद्यमानतया भवितुं कल्पते । एवमाचार्यस्य वचनं श्रुत्वा शिष्यः पृच्छति-'से किमाहु भंते' इति. 'से किमाइ भंते' ! अथ हे भदन्त ! किं कस्मात् कारणात् भगवन्त एवमाहुः कथयन्ति यत् निर्ग्रन्थस्य नबडहरतरुणस्य आचार्यमरणे प्रथममाचार्य स्थापयित्वा तत्पश्चात् उपाध्यायं स्थापयित्वा तयोनिश्रया स्थातुं कल्पते इति कथमेवम् ! तत्राऽऽचार्यः प्राह-'दुसंगहिए' इत्यादि । 'दुसंगहिए समणे णिग्गंथे' द्विसंगृहीतः श्रमणो निर्ग्रन्थः, द्वाभ्यां संगृहीतः संरक्षित एव श्रमणो निर्ग्रन्थः सदा भवति । श्रमणेन निम्रन्थेन सदैवाचार्योपाध्याययुक्तेनैव भवितव्यम् , न तु ताभ्यां विरहितेन कदाचिदपि भाव्यमिति । काभ्यां द्वाभ्याम् ? तत्राह-'तंजहा' इति । 'तंजहा' तद्यथा'आयरिएणं उवज्झाएम य' आचार्येण उपाध्यायेन च संगृहीत एव श्रमणो निम्रन्थः सदा भवतीति । ननु किमर्थमेवमुक्तम् यत् आचार्योपाध्यायरहिता नवदीक्षिता डहराः तरुणाश्च स्थातुं नार्हन्ति ? तत्राह -आचार्योपाध्यायसंरक्षणरहितानामस्वामिकानां तेषां स्वपरसमुद्भवा बहवो दोषाः समाप-' तन्ति, तथाहि-संरक्षणरहिता बालसाधवः 'अनाथा वय'-मिति कृत्वाऽन्यगणे गच्छन्ति, न शास्त्रमधीयते, प्रत्युपेक्षणादिकमपि यथासमयं न कुर्वन्ति, संयमे शिथिला भवन्ति, यथेच्छं भ्रमन्ति, . गृहस्थपर्याये वा गच्छेयुः, इत्यादिस्वसमुद्भवा दोषा इति । परसमुद्भवा दोषा यथा-पार्श्वस्थादयो गृहस्थाः परतीर्थिका वा क्षुल्लकान् 'अस्वामिका एते' इति कृत्वा तद्गच्छाद् निष्क्रामयेयुः, ततः पार्श्वस्थास्तान् पार्श्वस्थत्वे परिणमयन्ति, गृहस्थास्तान् गृहस्थपर्याये परिणमयन्ति, अन्यतीर्थिकाः अन्यतीर्थिकान् कुर्वन्ति, इत्यादिका बहवो दोषा नवानां विषये समुत्पद्यन्ते । तथा डहराणामिमे दोषाः-'अनाथा वयं जाताः' इति मनस्याघातेन क्षिप्तचित्ता भवन्ति, स्तेना वा स्वपक्षे परपक्षे चोत्तिष्ठन्ति, ते तान् विपरिणमय्य हरन्ति, अन्यत्र नयन्ति, अपरिपक्वबुद्धित्वेन परीषहै: खिन्नाः संयमे कम्पमाना भवेयुरन्यत्र वा स्वयं गच्छन्तीत्यादयः डहरदोषाः। तरुणानां तु दोषकलापसंभवः, तारुण्यस्य तथास्वभावात् , तथाहि-न वर्ततेऽस्माकमाचार्य उपाध्यायो वा, स्वतन्त्रा वयमिति बुद्धया न संयमं सुचारुतया परिपालयन्ति, गृहस्थैः सह राजकथादिकां चतुर्विधां विकथां यथेच्छं कुर्वन्ति, न यथासमयं प्रतिलेखनादिक्रियां कुर्वन्ति, आचार्यादिपदपिपासया वाऽन्यत्र गमनं
व्य. १२