________________
भाष्यम् उ० ४ सू० १-९ आचार्यादीनां शेषकालवर्षाकालविहरणविधिः १०५
षष्ठमनुज्ञासूत्रमाह- कप्पइ आयरिय०' इत्यादि ।
'कप्पइ' कल्पते 'आयरियउवज्झायस्स' आचार्योपाध्यायस्य 'अप्पतइयस्स' मात्मतृतीयस्य आत्मा स्वयं तृतीयो यत्र स आत्मतृतीयः द्वाभ्यामात्मभिन्नाभ्यां साधुभ्यां सहितस्तस्य 'वासावासं वत्थए' वर्षावासं वस्तुम् ॥ सू० ६ ॥
अर्थसप्तमं वर्षावासमधिकृत्य निषेधविषयं गणावच्छेदकसूत्रमाह-'नो कप्पई' इत्यादि ।
नो कप्पई न कल्पते 'गणावच्छेययस्स' गणावच्छेदकस्य 'अप्पतइयस्स आत्मतृती यस्य आत्म भन्नसाधुद्वयसहितस्य 'वासावासं वत्थए' वर्षावासं वस्तुम् । सू० ७ ॥
अथाष्टममनुज्ञासूत्रमाह- 'कप्पइ गणा०' इत्यादि ।
'कप्पई' कल्पते 'गणावच्छेययस्स' गणावच्छेदकस्य 'अप्पचउत्थस्स' आत्मचतुर्थस्यआत्मा स्वयं चतुर्थो यत्र स आत्मचतुर्थः आत्मभिन्नैस्त्रिमिः साधुभिः सहितस्य 'वासावासं वत्थए' वर्षावासं वस्तुम् कल्पते इति सूत्राष्टकसंक्षेपार्थः ।
अयं भावः-हेमन्तग्रीष्मकालमधिकृत्याचार्योपाध्यायविषयं निषेधानुज्ञागर्भितं सूत्रद्वयम् , तत्राघसूत्रे हेमन्तग्रीष्मयोरेकाकिन आचार्योपाध्यायस्य विहरणनिषेधः, द्वितीयसूत्रे आत्मद्वितीयस्य तस्य विहरणानुज्ञेति सूत्रद्वयमाचार्योपाध्यायविषयकम् २ । एवं सूत्रद्वयं गणावच्छेदकस्य हेमन्तग्रीष्मकालविषये भावनी यम्, तत्राद्यसूत्रे आत्मद्वितीयस्य प्रतिषेधः, द्वितीयसूत्रे त्वात्मतृतीयस्यानुज्ञा ४। एवमेषामेव चत्वारि सूत्राणि वर्षावासविषयाणि वेदितव्यानि, तत्राये द्वे सूत्रे आचार्यपाध्यायस्य यथा -प्रथमसूत्रे आचार्योपाध्यायस्यात्मद्वितीयस्य प्रतिषेधः, द्वितीये त्वात्मतृतीयस्यानुज्ञा ६ । तृतीयसूत्रे गणावच्छेदकस्यात्मतृतीयस्य प्रतिषेधः, चतुर्थे त्वात्मचतुर्थस्यानुज्ञेति सूत्राष्टकभावार्थः ८ । अत्र ऋतुबद्धकाले वर्षाकाले चेति कालद्व ये जघन्यतो यथाक्रमं गच्छः पञ्चकः सप्तकश्च भवितुमर्हति, पञ्चपरिमाणमस्येति पञ्चकः, समपरिमाणमस्येति सप्तकः, किमुक्तं भवति-ऋतुबद्धकाले पञ्चको गच्छः पञ्चसाधुसमुदायरूपः, वर्षाकाले च सप्तकः सप्तसाधुसमुदायरूपो गच्छो भवति । कथमित्याह-ऋतुबद्धे काले जघन्यत आचार्य उपाध्यायो वा आत्मद्वितीयः गणावच्छेदकस्त्वात्मतृतीय इत्येवं पञ्चको गच्छो भवति । वर्षाकाले जघन्यत आचार्य उपाध्यायो वा आत्मतृतीयः, गणावच्छेदकश्चात्मचतुर्थ इत्येवं सप्तको गच्छो भवति । उत्कर्षतः कालद्वयेऽपि द्वात्रिशत्सहस्रसाधुसमुदायरूपो गच्छो भवति, यथाहि-भगवत ऋषभदेवस्वामिनो ज्येष्ठस्य गणधरस्य ऋषभसेनस्य पुण्डरीकाऽपरनाम्नो द्वात्रिंशत्सहस्रो गच्छ आसीत् । शेषपरिमाणो जघन्योत्कृष्टमध्यगतो गच्छो मध्यमो भवति । अत्र सूत्राष्टके जधन्यपरिमाणो गच्छः प्रतिपादित इति ॥ सू० १-८॥ -- व्य. ११