________________
भाष्यम् उ० ३ ० १०-११
असमाप्तश्रुतनिरुद्ध पर्यायस्याचार्यादिषदविधिः ८७ कारणकलापैः यदि कदाचित् सोऽशुभकर्मोदयात् तत्तत्सम्बन्धिकारणविशेषाद्वा निरुद्धपर्यायो भूत्वा पुनः शुभकर्मोदयाद्दीक्षां गृह्णाति, एवं तस्य पूर्वपर्यायकाले समाचरितान् संघोपकारकगुणान् स्मृत्वा तस्य तद्दिवसे एव आचार्योपाध्यायपदवीं दातुं कल्पते इत्यनुज्ञातं भगवतेति न कोऽपि दोष इति शिष्यप्रश्नसमाधानमिति । सू० ९ ॥
पूर्व निरुद्धपर्यायस्य पुनर्दीक्षिते सति तद्दिवस एवाचार्यादिपददानविधिरुक्तः, साम्प्रतं तादृशस्यैव'समाप्तश्रुतस्य तद्वित्रिमाह - 'निरुद्धवासपरियार' इत्यादि ।
सूत्रम् - निरुद्धवास परियाए समणे णिग्गंथे कप्पइ आयरियउवज्झायत्ताए उद्दिसि - तर समुच्छेयक पंसि तस्स गं आयारपकप्पस्स देसे अवट्ठिए सेय 'अहिज्जिस्सामि' -त्ति अहिज्जेज्जा एवं से कप्पइ आयरियउवज्झायत्ताए उद्दिसित्तए, से य 'अहिज्जिस्सामि' - त्ति नो अहिज्जेज्जा एवं से नो कप्पइ आयरियउवज्झायत्ताए उद्दिसित्तए तद्दिवस ॥ सू० १० ॥
छाया - निरुद्धवर्ष पर्यायः श्रमणो निर्ग्रन्थः कल्पते आचार्योपाध्यायतया उद्देष्टुम्, समुच्छेदकल्पे तस्य खलु आचारप्रकल्पस्य देशोऽवस्थितः स च 'अध्येष्यामी' - ति अधीयीत, एवं तस्य कल्पते आचार्योपाध्यायतयोद्देष्टुम् । स च 'अध्येष्यामी' - ति नो अधीयीत एवं तस्य नो कल्पते आचार्योपाध्यायतया उद्देष्टुं तद्दिवसम् ॥ सू० १० ॥
भाष्यम् – 'निरुद्धवासपरियाए ' निरुद्धवर्षपर्यायः, निरुद्धो विनष्टो वर्षपर्यायो यस्य स निरुद्धवर्षपर्यायः । अयं भावः- त्रिषु वर्षेषु परिपूर्णेषु यस्य असमाप्तश्रुतस्य पूर्वपर्यायो निरुद्धो विनष्टो भवेत् । अथवा अपूर्णेषु त्रिषु वर्षेषु समाप्तश्रुतस्य वर्षपर्यायो निरुद्धः स्यादिति, एतादृशः 'समणे णिग्गये' श्रमगो निर्ग्रन्थः ' कप्पड़' कल्पते 'आयरियउवझायत्ताए उद्दिसित्तए' आचार्योपाध्यायतया आचार्यतया उपाध्यायतया वा उद्देष्टुं स्थापयितुम्, त्रिवर्षपर्यायः श्रमणो निर्ग्रन्थः आचार्यतयाउपाध्यायतया वा उद्देष्टुं कल्पते इति भावः । कदा कल्पते : इत्याह- 'समुच्छेयकप्पंसि' इत्यादि, 'समुच्छेयक पंसि' समुच्छेदकल्पे कल्पस्य समुच्छेदकाले आचार्ये गणनायके कालं गते सतीत्यर्थः अन्यस्य बहुश्रुत्स्य लक्षणपूर्णस्य चाऽसत्त्वे तस्य आचार्यतया उपाध्यायतया वा उद्देष्टु कल्पते । कथं कल्पते ! इत्यत्र विधिमाह - ' तस्स णं' तस्य खलु प्रस्तुत श्रमण निर्ग्रन्थस्य यद्यपि सः अबहुश्रुतो - sस्ति किन्तु अध्ययन समर्थो भवेत् तादृशस्य तस्य यदि ' आयारपकप्पस्स' आचारप्रकल्पस्य आचाराङ्गनिशीधाध्ययनस्य 'देसे' देशः किश्चित्प्रमाणोऽशः 'अवट्ठिए' अवस्थितः - अपठितरूपेण स्थितो वर्त्तते, किञ्चित्प्रमाणोऽशो नाधीतः, सूत्रमधीतम् अर्थस्तु नाद्याप्यधीत इति, 'से य' तं च