________________
व्यवहारसूत्र ssचार्यत्वादीनि आरोप्यमाणानि घटन्ते, अगीतार्थत्वात् , इति शिष्यप्रश्नः । आचार्यः प्राह'अत्थि णं' इत्यादि, 'अस्थि णं' इति सन्ति खलु 'थेराणं' स्थविराणामाचार्याणां गच्छनायकानाम् 'तहारूवाणि' तथारूपाणि आचार्यादिप्रायोग्यानि 'कुलाणि' कुलानि साधुसाध्वीश्रावकश्राविकारूपाणि 'कडाणि' तेन कृतानि गच्छप्रायोग्यतया निर्वर्त्तिता नि संपादितानि येन यत् यथाकालं तेभ्यः तत्प्रायोग्यं भक्कादिकपधिश्चोपजायते, उपलक्षणमेतत्-तेन न केवलं तथारूपाणि कुलानि कृतानि अपि तु आचार्यबालवृद्धग्लानादयोऽप्यनेकथा संग्रहोपग्रहविषयीकृताः, इत्यपि द्रष्टव्यमिति । न केवलं तथारूपाणि कुलान्येव तानि कृतानि किन्तु-'पत्तियाणि' प्रत्ययि कानि गच्छस्य प्रीतिकराणि विनययुकानि कृतानि । 'थे जाणि' स्थैर्याणि नैकवारं द्विवारं वा गच्छस्य प्रीतिकराणि कृतानि अपितु स्थैर्याणि अनेकवारं गच्छस्य प्रीति कराणि विनयवैयावृत्त्यादिना स्थायित्वेन कृतानीति । अथवा स्थैर्याणि प्रीतिकरतया गच्छचिन्तायां प्रमाणभूततया स्थिरीकृतानि, यदा खलु गच्छे एव विचारणा भवेत् यत् गच्छस्य कः स्थायी प्रीतिकरः ? तदा एतान्येव कुलानि प्रमाणतया समुपस्थितानि भवन्ति । एवं गच्छचिन्तायां प्रमाणभूततया स्थिरीकृतानीति । न केवलमेतावदेव अपि तु 'वेसासियाणि' वैश्वासिकानि आत्मनः अन्येषां च गच्छवासिनां मायारहितीकृततया विश्वासयुक्तानि कृतानि । यत एव विश्वासयुक्तानि मत एव 'संमयाणि' संमतानि तेषु तेषु प्रयोजनेषु इष्टानि 'संमुइयकराणि' संमुदितकराणि जिनवचनेऽनुरागमुत्पाद्य जिनधर्मे प्रमोदकराणि कृतानि । 'अणुमयाणि' अनुमतानि यतो गच्छे बहुशः क्लेशादिषु समुत्पन्नेषु गच्छस्यानुकूलानि कृतानि, अत एव 'बहुमयाणि' बहुमतानि बहूनामनेकेषां बालवृद्धालानादीनाम् अतिशयत इष्टानीति बहुमतानि भवन्ति ततः 'जं से' यत् यस्मात् कारणात् स श्रमणो निम्रन्थः तेहिं कडेहिं तेहिं पत्तिएहि तेहिं थेज्जेहिं तेहिं वेसासिएहि तेहिं संमएहिं तेहिं संमुइयकरेहिं तेहिं अणुमएहिं तेहिं बहुमएहि तैः कृतैः, तैः प्रत्ययिकैः, तैः स्थैर्यैः, तैर्वैश्वासिकैः, तैः संमतैः, तैः समुदितकरैः, तैरनुमतैः, तैर्बहुमतैः पूर्वोक्तस्वरूपैः कुलैः गच्छप्रायोग्यकरणादिकारणात् कदाचित् तत्करणे मोहकर्मोदयात् , तत्तत्प्रसङ्गप्राप्तकारणविशेषाद्वा 'निरुद्धपरिचाए' निरुद्धपर्यायः त्यक्तसंयमपर्यायो भवेत् , पुनश्च शुभकर्मोदयात् सावधानीभूय दीक्षां गृह्णीयात् एतादृशः स श्रमणो निम्रन्थः 'कप्पइ' कल्पते 'आयरियउवज्झायत्ताए' आचार्योपाध्यायतया आचार्यतया उपाध्यायतया च 'उद्दिसित्तए तदिवस' उद्देष्टुं तदिवसे यस्मिन् दिवसे दीक्षा गृहीता तस्मिन्नेव दिवसे स गच्छोपकारकगुणवत्त्वात् आचार्योपाध्यायपदे स्थापयितुं योग्यो भवतीति भावः ।
अयं भावः-येन मुनिना पूर्वदीक्षाकाले साधुकुलानि साध्वीकुलानि श्रावककुलानि श्राविकाकुलानि चेति, चतुर्विधसङ्घकुलानि बहुश आचार्यगच्छादिप्रायोग्यानि कृतानि प्रीतिकरादिपदवाच्यानि कृतानि बहुशो बालवृद्धग्लानादयः संग्रहोपग्रहादिविषयीकृताः, तैः तादृशैः