________________
भाष्यम् उ० ३ सू० ९ निरुद्धपर्याययस्य पुनःक्षायामाचार्यादिपदविधिः ८५ तया खेदसहिष्णुत्वशक्तिसंपन्नत्वादिति । अष्टवर्षपर्यायो विप्रकृष्टः पुनः सर्वाण्यपि स्थानामि वोढुं शक्नोति ततस्तस्य आचार्यत्वमुपाध्यायत्वं प्रवर्तकत्वं गणित्वं गणधरत्वं गणाक्च्छेदकावं चानुज्ञातम्, तादृशस्य तस्य बहुतमवर्षपर्यायत्वेन सकलगच्छसमापतितखेदसहिष्णुत्वाविशक्तिसंपन्नत्वादिति । यतश्च तस्याष्टवर्षपर्यायस्य दीर्घकालिकेनाष्टवर्षप्रमाणेन इन्द्रियनोइन्द्रियाणि निगृहीतानि भवन्ति, बहुभिः कर्त्तव्यैश्च तस्यात्मा खलु भावितो भवति ततस्तस्य योग्यत्वेन सर्वाणि स्थानान्यनुज्ञातानि भगवतेति भावः ॥ सू० ८॥
___ पूर्वसूत्रे दीक्षापर्यायमधिकृत्याचारकुशलत्वादिगुणयुक्तस्य आचार्यादिपददानविधिरुक्तः, सम्प्रति निरुद्धपर्यायस्याचार्यादिपददानविधिमाह-निरुद्धपरियाए' इत्यादि ।
सूत्रम्-निरुद्धपरियाए समणे णिग्गंथे कप्पइ तदिवसं आयरियउवझायत्ताए उद्दिसित्तए, से किमाहु भंते !, अत्थिणं थेराणं तहारूवाणि कुलाणि कडाणि पतियाणि थेज्जाणि- वेसासियाणि संमयाणि सम्मुइयकराणि अणुमयाणि बहुमयाणि भवंति, तेहिं कडेहि तेहिं पत्तिएहि तेहिं येज्जेहिं तेहिं वेसासिएहिं तेहिं संमएहि तेहिं संमुइकरेहि तेहि अणुमएहिं तेहिं बहुमएहिं जं से निरुद्धपरियाए समणे णिग्गंथे कप्पा आयरियउवज्झायत्ताए उदिसित्तए तदिवसं ॥ सू०९॥
छाया-निरुद्धपर्यायः श्रमणो निग्रन्थः कल्पते तदिवसे आचार्योपाध्यायतया उद्देष्टुम् । अथ किमाहुः भदन्त ! सन्ति खलु स्थविराणां तथारूपाणि कुलानि मृतानि प्रत्ययिकाणि स्थैर्याणि वैश्वासिकानि संमतानि संमुदितकराणि अनुमतानि बहुमतानि भवन्ति । तैः कृतः, तैः प्रत्ययिकैः तैः स्थैः, तैर्वैश्वासिकैः तैः संमतै, तैः संमुदितकरैः, तैरनुमतैः, तैर्बहुमतैः यत् स निरुद्धपर्यायः श्रमणो निर्ग्रन्थः कल्पते आचार्योपाध्यायतयोहेष्टुं तहिवसे ॥ सू० ९॥
भाष्यम् --- 'निरुद्धपरियाए' निरुद्धपर्यायः, तत्र निरुद्धो विनष्टोऽतिचारादिसेवनेम पर्यायः प्रवज्यापर्यायो यस्य येन वा स निरुद्धपर्यायः क्निष्टदीक्षापर्यायः स पुनरागत्य दीक्षितो. भवेत्' तादृशः 'समणे जिग्गंथे' श्रमणो निम्रन्थः एतादृशः निरुद्धपर्यायः श्रमणः 'कप्पइ' कल्पते 'तदिवसं आयरियउबझायत्ताए उद्दिसित्तए' तदिवसे आचार्योपाध्यायतया उद्देष्टुम् , तत्र तस्मिन् दिवसे यस्मिन् दिवसे पुनः प्रघ्रज्यां गृहीतवान् तस्मिन् दिवसे, पूर्वपर्यायस्तस्य प्रभूततर आसीत् ततस्तस्मिन् दिवसे एव स कल्पते आचार्योपाध्यायतया उदेष्टुम् , आचार्यपदे उपाध्यायपदे वा व्यवस्थापयितुं कल्पते इत्यर्थः ।
अत्र शिष्यः-प्रश्नयति-'से किमाहु भंते' अत्र 'से' शब्दोऽथशब्दार्थकः, तथा च-अथ किमाहुभदन्त हेभदन्त ! किं कथं कस्मात् कारणात् भगवन्त एवमाहुर्यथा-तदिवसे एव कल्पते तस्य निरुद्धपर्यायस्याऽऽचार्योपाध्यायतया व्यवस्थापयितुम् , न खलु प्रवजितमात्रस्य तदिने एवा