________________
व्यवहारसूत्रे
भाष्यम् – 'अठवासपरियार, अष्टवर्षपर्यायः तत्राऽष्टौ वर्षाणि पर्यायः प्रव्रज्यापर्याय यस्य सोऽष्टवर्षपर्यायः 'समणे मिग्मंथे' श्रमणो निर्मन्थः 'आयारकुसले' आचार कुशलः, इत्यादिपदानां तृतीयसूत्रे व्याख्या कृता तत्रतोऽक्सेया । नकरम् ' जहन्नेणं ठाणसमवायधरे' जघन्येन स्थानाङ्गसमवायाङ्गघर: स्थानाङ्गसूत्रस्य समवायानसूत्रस्य च सूत्राधारको भवेत् सः 'कप्पइ' कल्पते ‘आयरियत्ताए' आचार्यतया 'उवज्झायत्ताए' उपाध्यायतया 'गणावच्छेयगत्ताए' गणावच्छेदकतया 'उहिसित्तए' उद्देष्टुं, संस्थापयितुम् आचारकुशलादिमुणगणोपे - तोऽष्टवर्षपर्यायः श्रमणो निर्ग्रन्थः आचार्यपदे उपाध्यायपदे गणावच्छेदकपदे च संस्थापयितुं योग्यो भवति । अत्र गणावच्छेदकेति चरमपदग्रहणेन प्रवर्तकादीनि मध्यस्थानि पदान्यपि ग्रहीतव्यामि तेनायाति पूर्वोक्तगुणयुक्तः श्रमण आचार्यादीनि सर्वाणि पदानि गृहीतुं योग्यो भवतीति भावः ।। सू०७ ॥
૮૪
पूर्वोक्तगुणरहितस्तु आचार्यादिपदे समुपस्थापयितुं न योग्य इति प्रदर्शयति- 'सच्चेवणं' इत्यादि ।
सूत्रम् - सच्चेवणं अट्ठवासपरियाए समणे णिम्गंथे नो आयारकुसले नो संजमकुसले नो पत्रयणकुसले नो पन्नतिकुसले नो संगहकुसले नो उम्महकुसले खयायारे भिन्नायारे सबलायारे संकिलिट्ठायारे अप्पसुए अप्पागमे नो कप्पड़ आयरिया उवज्झायसाए गणावच्छेयगत्ताए उ सित्तए । सू०८ ॥
छाया - स एव अथ खलु अष्टवर्षपर्यायः श्रमणो निर्ग्रन्थों नो आचारकुशलो नो संयमकुशलो नो प्रवचनकुशलों नो प्रज्ञप्तिकुशलो नो संग्रहकुशलो नो उपग्रहकुशलो क्षतावारो भिन्नावारः शबलाचारः संक्लिष्टाचारचितोऽल्पश्रुतोऽल्पागमः न कल्पले आचार्यतया उपाध्यायतया गणावच्छेदकतयोद्देष्टुम् ॥ सू० ८ ॥
भाष्यम् – 'सच्चेव णं' अथ स एव खलु ' अहवास परियार' अष्टवर्षपर्याया अष्ट वर्षाणि पर्यायः प्रव्रज्यापर्यायो यस्य सोऽष्टवर्षपर्यायः 'समणे निम्गये' श्रमणो निर्ग्रन्थः, शेषपदानि निषेधपरकत्वेन पूर्ववद् व्याख्येयानि त्रिवर्षपर्याय – पञ्चवर्ष पर्यायाऽष्टवर्षपर्याययुक्तस्य श्रमणनिर्ब्रन्थस्य आचार प्रकल्पादिवरस्य उपाध्यायादिपदस्थापनेऽयं निषेधपरको निष्कर्षो बोध्यः
अत्रोपाध्यायाचार्यादयो युगानुरूपा आचारप्रक्रपद शाकल्पम्यवहारघरादयः, तपोनियमस्वाध्यायादिषु उद्युक्ता द्रव्यक्षेत्रकालभावोचितयतनापरायणाः तत्तत्पदयोग्या ज्ञातव्याः, तथाहि त्रिवर्षपय यस्यएकमेवोपाध्यायलक्षणं स्थानमनुज्ञातं न तु द्वितीयमाचार्यत्वलक्षणं स्थानम्, , यतोऽसौ अल्पपर्यायतथा प्रभूतखेदसहिष्णुत्वाभावादाचार्यपदयोग्यताया अभावेन नाचार्यपदयोग्यों भवितुमर्हतीति । पञ्चवर्षपर्यायस्य द्वे स्थाने अनुज्ञाते, तथाहि उपाध्यायत्वमाचार्यत्वं चेति, तस्य बहुतरवर्षपर्याय