________________
भाष्यम् उ०॥ सू० ६-८
__पञ्चाष्टवर्षपर्यायस्याचार्यादिपददानविधिः ॥ जघन्येन दशाकल्पव्यवहारधर: दशाश्रुतस्कन्धव्यवहारसूत्रधारकः एतादृशगुणगणविशिष्टः श्रमणो निम्रन्थः 'कप्पइ' कल्पते 'आयरियउवज्झायत्ताए उद्दिसित्तए' आचार्योपाध्यायतया उद्देष्टुम् आचार्योपाध्यायपदे स्थापयितुम् । यः श्रमणो निर्ग्रन्थः पूर्वोक्ताऽऽचारकुशलादिगुणगणविशिष्टः पञ्चवर्षात्मकदीक्षापर्याययुक्तश्च भवेत् स आचार्यपदमुपाध्यायपदं वा स्वीकत्ते योग्यो भवेदिति भावः ॥ सू० ५॥ ____ अथ पूर्वसूत्राद् वैपरीत्येनाचार्योपाध्यायपदायोग्यपरकं सूत्रमाह-'सच्चेव णं' इत्यादि ।
सूत्रम्-सच्चेव से पंचवासपरियाए समणे णिगंथे नो आयारकुसले नो संजमकुसले नो पवयणकुसले नो पन्नत्तिकुसले नो संगहकुसले नो उवग्गहकुसले खयायारे भिन्नायारे सबलायारे संकि लिट्ठायारे अप्पसुए अप्पागमे नो कप्पइ आयरिय उवज्झायत्ताए उदिसितए ॥ सू०६॥
- छाया–स एव खलु अथ पञ्चवर्षपर्यायः श्रमणो निर्ग्रन्थो नो आचारकुशलो नो संयमकुशलो नो प्रवचनकुशलो नो प्रज्ञप्तिकुशलो नो संग्रहकुशलो नो उपग्रहकुशलः क्षताचारी भिन्नाचारः शवलाचारः संक्लिष्टाचारोऽल्पश्रुतोऽल्पागमो नो कल्पते आचार्योपाध्यायतयोद्देष्टुम् ॥ सू० ६॥
भाष्यम्-'सच्चेव ण से' अत्र 'से' शब्दः अथार्थवाचकस्तेन 'से' अथ स एव खलु 'पंचवासपरियाए' पञ्चवर्षपर्यायः पूर्ववत् पञ्चवर्षात्मककालदीक्षितः 'समणे णिग्गंथे' अमणो निर्ग्रन्थः आचारकुशलादिविशेषणविशिष्टो न भवेत्तदा तस्याचार्योपाध्यायपदं न कल्पते इति सूत्राशयः । अत्र आचारकुशलादिपदानि 'नो'-शब्दमधिकृत्य निषेधपरकत्वेन पूर्ववद् व्याख्येयानि । नवरम्, पूर्वोक्ताचारकुशलादिविकलः श्रमणो निर्ग्रन्थः 'नो कप्पइ आयरियउपज्झायत्ताए उदिसित्तए' नो कल्पते आचार्योपाध्यायतया उद्देष्टुम् आचार्योपाध्यायपदे स्थापयितुम् । आचारकुश सत्वादिगुणरहितः श्रमणो निम्रन्थः आचार्यपदे उपाध्यायपदे वा स्थापयितुं युक्तो न भवतीति भावः ।। सू०६ ॥
अथाष्टवर्षपर्यायमधिकृत्याचार्यादिपददानविधिमाह-'अट्ठवासपरियाए' इत्यादि ।
सूत्रम् --अट्ठवासपरियाए समणे णिग्गंथे आयारकुसले संजमकुसले पवयणकुसले पन्नत्तिकुसले संगहकुसले उवग्गहकुसले अक्खयायारे अभिन्नायारे असबलायारे बहुस्सुए बब्भागमे जहन्नेणं ठाणसमवायधरे कप्पइ आयरियत्ताए उवज्झायत्ताए गणवच्छेयगत्ताए उद्दिसित्तए ॥सू०७॥
छाया--अष्टवर्षपर्यायः श्रमणो निर्ग्रन्थः आचारकुशलः संयमकुशलः प्रवचनकुशलः प्रज्ञ कुशलः संग्रहकुशलः उपग्रहकुशलोऽक्षताचारोऽभिन्नाचारः अशबलाचारः असंक्लिष्टाचारो बहुश्रुतः वह्वागमः जघन्येन स्थानसमवायधरः कल्पते आचार्यतया उपाध्यायतया गणावच्छेदकतया उद्देष्टुम् ॥ सू० ७ ॥