________________
व्यवहारस्त्रे यारे भिन्नायारे सबलायारे संकिलिहायारे अप्पसुए अप्पागमे नो कप्पइ उवज्झायत्ताए उदिसित्तए ॥ सू० ४ ॥
छाया-स एव खलु अथ त्रिवर्षपर्यायः श्रमणो निर्ग्रन्थो नो आचारकुशलो नो संयमकुशलो नो प्रवचनकुशलो नो प्राप्तिकुशलो नो संग्रहकुशलो नो उपग्रहकुशलः क्षताचारो भिन्नाचारः शबलाचारः संक्लिष्टाचारोऽल्पश्रुतोऽल्पाऽऽगमो नो कल्पते उपाध्यायतया उद्देष्टुम् ॥सू० ४॥
भाष्यम्-'सच्चेव णं से' इति । 'से' अथ 'सच्चेव णं' इति स एव खलु त्रिवर्षपर्यायः यः श्रमणो निम्रन्थः तृतीयसूत्रे कथितः स एव त्रिवर्षपर्यायो यदि पूर्वोक्ताचारकुशलत्वादिगुणरहितो भवेत् स उपाध्यायतया उद्देष्टुं न कल्पते इति सूत्रभावार्थः । अत्र आचारकुशलादिपदानि निषेधपरत्वेन सर्वाणि व्याख्येयानि, तेषां पदानामर्थोऽत्रैव तृतीयसूत्रे विस्तारेण प्रति. पादितः । नवरम् 'अप्पस्सुए अप्पागमे' इति, अत्राल्पशब्दः अभाववाचकः श्रुतागमज्ञानविकलः, इति व्याख्येयम् ॥ सू० ४ ॥
पूर्व त्रिवर्षपर्यायविषयकमुपाध्यायसूत्रं व्याख्याय सम्प्रति पाञ्चवार्षिकपर्यायमाश्रित्य आचायोपाध्यायसूत्रमाह-पंचवासपरियाए' इत्यादि ।
सूत्रम्-पंचवासपरियाए समणे णिग्गंथे आयारकुसले संजमकुसले पवयणकुसले पन्नत्तिकुसले संगहकुसले उवग्गहकुसले अक्खयायारे असवलायारे असंकिलिट्ठायारे बहुस्सुए बब्भागमे जहन्नेणं दसाकप्पववहारधरे कप्पइ आयरियउवज्झायत्ताए उद्दिसित्तए ॥ सू० ५॥
छाया-पञ्चवर्ष पर्यायः श्रमणो निग्रंथ आचारकुशलः संयमकुशलः प्रवचनकुशलः प्रक्षप्तिकुशलः संग्रहकुशलः उपग्रहकुशलोऽक्षताचारोऽभिन्नाचारोऽशबलाचारोऽसं. क्लिष्टाचारः बहुश्रुतो वह्वागमो जघन्येन दशाकल्पव्यवहारधरः कल्पते आचार्योपाध्यायतया उद्देष्टुम् ॥ सू० ५॥
भाष्यम्-'पंचवासपरियाए' पञ्चवर्षपर्यायः पञ्च वर्षाणि पर्यायः प्रव्रज्यापर्यायो जातो यस्य स पञ्चवर्षपर्यायः, दीक्षाग्रहणकालादारभ्येदानीन्तनकालं यावत् यदि संगृह्यते, तदा स कालः पञ्चवर्षमितो यस्य भिक्षोर्व्यतीतो षष्ठश्च वर्षः प्रारब्धो भवति स पञ्चवर्षपर्यायः 'समणेणिग्गंथे' श्रमणो निर्ग्रन्थः 'आयारकुसले' आचारकुशलः, इत्यादिपदानां व्याख्या तृतीयसूत्रकृतव्याख्यावदेव ज्ञातव्या, नवरम् 'बहुस्सुए' बहुश्रुतः बहु-प्रभूतं श्रुतं सूत्ररूपं यस्य स बहुश्रुतः 'वभागमे' बहागमः बहुरागमोऽर्थरूपो यस्य स बह्वागमः 'जहन्नेणं दंसाकप्पववहारधरे'