SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ॥ अथ तृतीयोद्देशकः प्रारभ्यतेव्याख्यातो द्वितीयोद्देशकः, सम्प्रति तृतीयः प्रारभ्यते, तत्र द्वितीयोद्देशकस्य चरमसूत्रेण सहास्यतृतीयोदेशकादिसूत्रस्य कः सम्बन्धः ! इति प्रथमं सम्बन्धप्रतिपादिकां गाथामाह भाष्यकारः-'परिहारिय.' इत्यादि । भाष्यम्- परिहारियथेराणं, असणाणयणे य तस्स परिभोगे। वुत्तो विही य पुव्वं, गणस्स धारणविही एत्य ॥१॥ छाया-पारिहारिकस्थविरयोरशनानयने च तस्य परिभोगे। ____ उक्तो विधिश्व पूर्व गणस्य धारणविधिरत्र ॥ १॥ व्याख्या- 'परिहारिय०' इति । 'पुच्वं' पूर्व द्वितीयोदेशकस्य चरमसूत्रे पारिहारिकस्थविरयोः पारिहारिकतशेवहमानस्य स्थविरस्य च निमित्तमशनादीनामानयने, तस्याशनादेः परिभोगे परिभोगविषये च विधिरुक्तः-प्रतिपादितः । पारिहारिकः स्थविरश्च भिक्षुरेव भवतीति 'एत्थ' अत्र तृतीयोदेशकस्यादिसूत्रे तस्य भिक्षोः गणस्य धारणे विधिः कथयिष्यते, इत्येष एव सम्बन्धः पूर्वापरोद्देशकयोर्विज्ञेयः ॥१॥ अनेन सम्बन्धेनाऽऽयातस्यास्य तृतीयोद्देशकस्येदमादिसूत्रम्-'भिक्खू य' इत्यादि । सूत्रम्-भिक्खू य इच्छेजा गणं धारित्तए. भगवं च से अपलिच्छण्णे एवं से नो कप्पइ गणं धारित्तए। भगवं च से पलिच्छन्ने एवं से कप्पइ गणं धारित्तए ॥सू०१॥ __ छाया-भिक्षुश्च इच्छेत् गण धारयितुं भगाश्च स अपरिच्छिन्नः एवं तस्य नो कल्पते गण धारयितुम्, भगवाँश्च स परिच्छन्नः एवं तस्य कल्पते गण धार यितुम् ॥ सू० १॥ भाष्यम्-'भिक्खू य' इति । भिक्षुश्च कश्चित् साधुः 'इच्छेज्जा' इच्छेत् 'गणं धारित्तए' गणं साधुसमुदायं धारयितुं गणस्य गणधरत्वं कर्तुमिच्छेत् , अयं भावः-कोऽपि भिक्षुः कियतां साधूनां गणं कृत्वा 'इमं साधुसमुदायं ममाधीनं कृत्वाऽन्यत्र विहरिष्यामी'-ति बुद्ध्या साधुसमुदायस्य गणधरत्वं कर्तुंभिच्छेदिति । 'भगवं च से' गणधारणेच्छुः स अनगारो भगवान् यदि 'अपलिच्छण्णे' अपरिच्छन्नः परिच्छेदरहितो भवेत् परिवारवर्जितो भवेत् तत्र परिच्छदो द्रव्यभावभेदतो द्विविधः, द्रव्यतः परिच्छदः शिष्यपरिवारः, भावतः परिच्छदः आचाराङ्गादिच्छेदपर्यन्तं सूत्रजातम् , द्विधापि परिच्छेदरहितः, तत्र द्रव्यतः स्वप्रवाजितसाधुसमुदायरहितः, भावत आचाराङ्गादिसूत्रज्ञानरहितः स्यात् 'एवं से' एवम् एतादृशस्थितौ तस्यापरिच्छ. न्नस्य भिक्षोः 'नो कप्पई' न कल्पते 'गणं धारित्तए' गणम् अन्यदीयसाधुसमुदायरूपं गच्छं धारयितुम् तस्य द्रव्यभावतो द्विधापि गणधरणयोग्यताया अभावादिति । यदि 'भगवं
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy