SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ३ सू० १-२ भिक्षोणधारणविधिः ७७ च से' भगवांश्च सः अनगारः 'पलिच्छन्ने' परिच्छन्नः द्रव्यभावपरिच्छेदयुक्तो भवेत् ‘एवं से' एवं सति एतादृशस्थतौ द्रव्यभावपरिच्छेदयुक्तत्वे सति 'से' तस्य 'कप्पई' कल्पते 'गणं धारित्तए' गणं धारयितुम् , तस्य द्विधाऽपि गणधरणयोग्यतायाः सद्भावादिति । अत्र द्रव्यभावमधिकृत्य परिच्छन्नापरिच्छन्नविषया चतुर्भङ्गी प्रदर्श्यते, तथाहिएकः-द्रव्यतोऽपरिच्छन्नः, भावतोऽपि अपरिच्छन्नः १ । द्वितीयः-द्रव्यतोऽपरिच्छन्नः, भावतः परिच्छन्नः २। तृतीयः--द्रव्यतः परिच्छन्नः भावतोऽपरिच्छन्नः ३ । चतुर्थः-द्रव्यतः परिच्छन्नः, भावतोऽपि परिच्छन्नः ४ । अस्यां चतुर्भङ्गयां चतुर्थभगवर्ती शुद्धः, शेषा भङ्गत्रयवर्तिनः अशुद्धा इति । अत्र प्रस्तुतसूत्रे चतुर्थभगवर्ती एव गणधरपदे स्थापयितुं योग्य इति सूत्रार्थः ॥ सू० १ ॥ पूर्व द्रव्यभावपरिच्छन्नो भिक्षुर्गणधरणयोग्यो भवतीति प्रोक्तम् , साम्प्रतं स द्रव्यभावपरिच्छन्नो भिक्षुर्यदि मनस्येवं चिन्तयेत् -यत् सूत्रे प्रोक्तम् -यो भिक्षुर्द्रव्यभावपरिच्छन्नो भवेत्स गगं धारयितुं शक्नोति ततोऽहमुभाभ्यामपि परिच्छन्नोऽस्मि ततः किमहं तन्न कुर्याम् ! अतोऽहं गणं धारयामि किमत्र स्थविराणां परिपृच्छायाः प्रयोजनम् ! इति विचार्य भिक्षुर्गणं धारयेत्, तत्र स्थविरान् अनापृच्छय गणं धारयितुं भिक्षोर्न कल्पते इति प्रदर्शयति सूत्रकारः--'भिक्खू य' इत्यादि । सूत्रम्-भिक्खू य इच्छेज्जा गगं धारित्तए नो से कप्पइ थेरे अणापुच्छिता गणं धारित्तए। कप्पइ से थेरे आपुच्छित्ता गगं धारितए । थेरा य से वियरेज्जा एवं से कप्पइ गणं धारित्तए, थेरा य से नो वियरेज्जा एवं से नो कप्पइ पणं धारित्तए । जण्ण थेरेहिं अविइण्णं गणं धारेज्जा से संतरा छेए वा परिहारे वा ॥ सू० २॥ ... छाया-भिक्षुश्च इच्छेत् गण धारयितुं नो तस्य कल्पते स्थविरान् अनापृच्छय गण धारयितुम् । कल्पते तस्य स्थविरान् आपृच्छय गण धारयितुम् । स्थविराश्च तस्य वितरेयुः एवं तस्य कल्पते गणं धारयितुम् । स्थविराश्च नो वितरेयुः एवं तस्य नो कल्पते गणं धारयितुम् । यत् खलु स्थविरैः अवितीर्ण गणं धारयेत् तस्य सान्तरात् छेदो वा परिहारो वा ॥सू० २ ॥ भाष्यम् –'भिक्खू य' इति । भिक्षुश्च 'इच्छेज्जा' इच्छेत् 'गणं धारित्तए' गणं धारयितुं साधुसमुदायरूपं गणं कृत्वा तदुपरि गणाधिपत्यं कर्तुमिच्छेत् तदा तत्र 'से' तस्य भिक्षोः 'नो कप्पई' नो कल्पते 'थेरे अणापुच्छित्ता' स्थविरान् अनापृच्छय स्थविराज्ञामनादाय 'गणं धारित्तए' गणं धारयितुम् । तहिं कथं कल्पते ! इत्याह-'से' तस्य
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy