________________
भाष्यम् उ० २ सू० २७
द्वितीयोद्देशसमाप्तिः ७५
अवकृष्यावकृष्य 'भोएत्तए वा पायत्तए वा' भोक्तुं वा पातुं वा कल्पते ॥ सम्प्रति उपसंहारमाह - 'एस कप्पे ' इत्यादि, 'एस कप्पे पारिहारियस्स अपारिहारियओ एषः पूर्वोक्तः कल्पः पारिहारिकस्य परिहारकल्पस्थितस्याऽपारिहारिकतः अपारिहारिकमधिकृत्य कथित इति । एतत् सूत्रद्वयं स्थविराणां पार्श्वे अन्यवैयावृत्त्यकारकाऽपारिहारिक श्रमणाभावे ज्ञातव्यमिति । 'शिवेमि' इति ब्रबीमि । सुधर्मस्वामी जम्बुस्वामिनं कथयति - यन्मयां भगवती वर्द्धमानस्वामिनो मुखात् श्रुतं तत्तव ब्रवीमि कथयामि न तु स्वमनीषिकया किञ्चिदपि कथयामि । एतावता श्रुतस्याsप्रामाणिकता निराकृता ॥ सू० २७ ॥
इति श्री विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषा कलितललितकला पालापकप्रविशुद्ध गद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनाचार्य”– पद भूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलालवति विरचितायां "व्यवहारसत्रस्व" भाष्यरूपायां व्याख्यायां द्वितीय उद्देशकः समाप्तः ॥ २॥