SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ व्यवहार सवा सयंस पलासमंसि कमढगंसि वासयंसि खुव्वगंसि वा सयंसि पार्णिसि क बन्द उदर भोत्तर वा पायए वा एस कप्पे पारिहारियस्स अपारिहारियओ तिमि ॥ सू० २७ ॥ वहारस्स बोओ उद्देसो समत्तो ॥२॥ छाया - परिहारकल्पस्थितो भिक्षुः स्थविराणां प्रतिग्रहेण बहिः स्थविराणां वैयावृत्याय गच्छेत् स्थविराश्च वदेयुः परिगृहाण आर्य ! त्वमपि अत्र भोक्ष्यसे वा पास्यसि वा, यं तस्य कल्पते प्रतिग्रहीतुम्, तत्र नो कल्पते पारिहारिकेणाऽपारिहारिकस्य प्रतिग्रहे अशनं का पानं वा खाद्यं वा स्वाद्यं वा भोक्तुं वा पातुं वा, कल्पते तस्य स्वकीये प्रतिप्र स्वकीये पलाशके कमढके वा स्वकीये खुव्वके वा स्वकीये पाणौ वा उद्धृत्त्योद्धृत्य भोक्तुं वा पातु वा एष कल्पः पारिहारिकस्याऽपारिहारिकतः, इति ब्रवीमि ॥ सू० २७ ॥ व्यवहारस्य द्वितीय उद्देशः समाप्तः ॥ २ ॥ भाष्यम् – 'परिहार कप्पट्ठिए भिक्खू' परिहारकल्पस्थितो भिक्षुः 'थेराण' स्थविराणां 'पंडिरहेणं' प्रतिग्रहेण पात्रेण 'बहिया' बहिर्वस तेर्बहिर्भागे 'थेराणं वेयावडियाए' स्थविराणां वैयावृत्त्याय स्थविरा भिक्षानयनाय 'गच्छेज्जा' गच्छेत् यदा गन्तुं प्रस्थितो भवेत् तदा 'थेरा य वएज्जा' "नूनं सर्वगृहेषु भिक्षायाः सममेककालमेव वर्त्तते ततोऽयं पारिहारिकोStraitri भिक्षां प्रथममादाय पश्चादयमात्मयोग्यां भिक्षामानेतुं नगरे प्रविष्टो न किमपि भोज्यजातं लप्स्यते" इति विचिन्त्य स्थविरा: पारिहारिकं वदेयुः कथयेयुः 'अज्जो' हे आर्य ! 'अत्थ' अत्र अस्मिन्नेव मदीये प्रतिग्रहे 'पडिग्गा हेहि' प्रतिगृहाण त्वदर्थमपि भिक्षां, ततः 'तुमपि एत्थ भोक्खसि वा पाहसि वा' त्वमप्यत्र मदीयपात्रे समानीतमशनादि भोक्ष्यसि वा पास्यसि वा 'एवं से कप्पर पडिग्गाहित्तए' एवं स्थविरैरुक्ते सति 'से' तस्य भिक्षार्थं गतस्य पारिहारिकस्य कल्पते प्रतिग्रहीतुम् स्थविरपात्रे स्वनिमित्तमपि भिक्षां ग्रहीतुम् । भिक्षाऽऽनयना - नन्तरं भोजनविधिमाह – 'तत्थ णो कप्पड़' इत्यादि, 'तत्थ णो कप्पइ' तत्र समानीताशनादौ नो कल्पते 'पारिहारिएण अपारिहारियस्स' पारिहारिकेणाऽपारिहारिकस्य 'पडिग्गइंसि' प्रतिग्रहे पात्रे 'असणं वा पाणं वा खाइमं वा साइमं वा भोत्तर वा पायए वा' अशनं वा पानं वा स्वाद्यं वा स्वाद्यं वा भोक्तुं वा पातुं वा । तर्हि कथं कल्पते ? तत्राह - ' कप्पड़' इत्यादि, 'कप्पर से सयंसि पडिग्गहंसि' किन्तु कल्पते 'से' तस्य पारिहारिकस्य स्वकीये प्रतिग्रहे पात्रे 'सयंसि पलासगंसि कमढगंसि वा स्वकीये पलाशके शुष्कपलाशपत्रनिर्मिते कमढके द्रोणकाभिधपात्रविशेषे वा 'सयंसि खुव्वगंसि वा' स्वकीये खुब्बगे संपुटितकरतलरूपे खोबा इति प्रसिद्धे वा 'सयंसि पार्णिसि वा' स्वकीये पाणौ वा 'उद्धट्टदु उद्धटु' उद्धृत्योद्धृत्य स्वपाणिना
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy