________________
भाष्यम् उ० २ सू० २५
परिहारकल्पस्थितायाऽशनादिदानविधिः ७१
मथ यदि विहारं न कुर्वन्ति तत्रैव तिष्ठन्ति तदा भद्रकप्रान्तकृतदोषा भवेयुः । तत्र भद्रकृता दोषा अतिपरिचयादुद्गमादिसंभवः, प्रान्तकृतदोषाः बहुचिरादेकत्रावस्थानेन क्षुद्रजनकृताक्षेपरूपाः 'यदेतेऽत्रैव तिष्ठन्ति न च कुत्रापि विहरन्ती'ति । वर्षाकाले तु एते दोषाः प्रायो न भवन्ति । वर्षाकाले प्रायो बहवः प्राणा उत्पद्यन्ते ततो भिक्षाचर्या दीर्घा न भवति ! वर्षाकालस्य स्निग्धतया स कालो बलिष्ठस्तेन तपः कुर्वतां बलोपष्टम्भं करोति । तथा वर्षा - कालस्य तपोऽनुष्ठानाश्रयतया सर्वेषां संगतत्वेन कस्याऽपि विशेषतो रागस्य द्वेषस्य चाऽसंभवादिति । तथा कल्पाध्ययनप्रतिपादिता गुणा अपि वर्षाकाले संभवन्ति । एतस्मादेव कारणात् वर्षाकाले एव विशेषतः परिहारतपो दीयते इति ॥ सू० २४ ॥
पूर्वसूत्रे पारिहारिकाऽपारिहारिकाणामाहारादिसभोगे विधिः प्रतिपादितः, साम्प्रतं पारिहारिकस्तपश्चरणेन क्षीणशरीरो भवेत् तेन तस्य विकृतिकाहारग्रहणमावश्यकमिति तस्मै अशनादिदाने विधिमाह - - ' परिहारकप्पट्ठियस्स' इत्यादि ।
सूत्रम् - परिहार कप्प द्वियस्स भिक्खुस्स णो कप्पर असणं वा पाणं वा खाइमं वा साइमं वा दाउँ वा अणुप्पदाउँ वा थेरा णं वएज्जा इमं ता अज्जो ! तुम एएसिं देहि वा अणुष्पदेहि वा एवं से कप्पइ दाउँ वा अणुप्पदाउ वा कप्पर से लेवं अणुजाणावित्तए अणुजाणह मंते ! लेवाए एवं से कप्पर लेवं समासेवित्तर || सू०२५॥
छाया -- परिहारकल्पस्थितस्य भिक्षोनों कल्पते अशनं वा पानं वा खाद्यं वा स्वाद्यं वा दातुं वा अनुप्रदातुं वा, स्थविराः खलु वदेयुः इमं तावत् हे आर्य ! त्वमेतेभ्यो देहि वा अनुप्रदेहि वा, एवं तस्य कल्पते दातुं वा अनुप्रदातुं वा, कल्पते तस्य लेपमनुज्ञापयितुम्, अनुजानीत भदन्त ! लेपाय पवं तस्य कल्पते लेपं समासेवितुम् ॥ सु० २५ ॥
भाष्यम् – 'परिहार कप्पट्ठियस्स' परिहारकल्प स्थितस्य परिहारकल्पे परिहारनामतपोविशेषे स्थित इति परिहारकल्पस्थितः, तस्य परिहारतपसो वहनं कुर्वतः परिहारकल्पस्थितस्य समापन्नपरिहरतपस इत्यर्थः ' भिक्खुस्स' भिक्षोः 'नो कप्पड़' नो कल्पते 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादिचतुर्विधाहारवस्तुजातं ' दाउँ वा अणुप्पदाउं वा दातुं वा अनुप्रदातुं वा परिहारकल्पस्थितस्य भिक्षोः अशनादिकं वस्तुं दातुं स्वहस्तेन न कल्पते न वा अनुप्रदातु परम्परयाऽन्यसकाशाद् वा दापयितुम् । अनुप्रदातुमित्यत्राऽनुशब्दः परंपरार्थबोधकः, तेन साक्षादपि दातुं न कल्पते न वा परम्परया दातुं कल्पते इत्यर्थः । एवं किं सर्वथा न कल्पते ? इत्यत्राह - 'थेरा णं' इत्यादि, 'थेरा णं वएज्जा' स्थविरा: खलु वदेयुः यदि पुनः स्थविराः गगनायकाः कञ्चित् साधुं वदेयुराज्ञापयेयुः । किं वदेयुः ? तत्राह - 'इमं