________________
व्यवहारसूत्र ता' इमं तावत् परिहारकल्पत्थितं भिक्षुम् 'अज्जो' हे आर्य ! 'तुम' त्वम् ‘एएसिं देहि वो अणुप्पदेहि वा' एतेभ्यः पारिहारकेभ्यः देहि अशनादिचतुर्विधमाहारम्, अनुप्रदेहि वा परम्परया अन्यसकाशाद्दापय, एवं पूर्वोक्तप्रकारेण स्थविरैः अनुज्ञाते सति 'से कप्पइ दाउं या अणुप्पदाउं वा' तस्याज्ञापितस्य साधोः कल्पते दातुं वा अनुप्रदातुं वा । यदि तद् अशनादिकं लेपमयं विकृति कादिरूपं भवेत् तदा पारिहारकस्य तद् विकृति कादिकं स्थविराज्ञामन्तरेण भोक्तुं न कल्पते, ततः किं कुर्यादित्याह-'कप्पइ से लेवं अणुजाणावित्तए' कल्पते तस्य लेपमनुज्ञापयितुं, तस्य पारिहारिकस्य कल्पते लेपरूपविकृतिकादिनिमित्तमनुज्ञापयितुं तद्भोजने आज्ञां ग्रहीतुं कल्पते, तदेवाह-'अणुजाणह भंते ! लेवाए' हे भदन्त ! यूयमनुजानीथ लेपाय विकृतिकाहारकरणाय, ‘एवं' एवंप्रकारेणानुझापने कृते सति 'से कप्पइ लेवं समासेवित्तए' तस्य पारिहारिकस्य कल्पते लेपं विकृतिकाहारं समासेवितुं भोक्तुं पारिहारिकतपो वहतो दुग्धादिगुरुकमाहारं गरिष्टत्वान्नोचित्तं भवेत् तस्मात् स्थविराज्ञामादायैव तत्सेवनमुचित्तं, स्थविराणां द्रव्यक्षेत्रादिबलाबलादिज्ञायकत्वादिति भावः ॥ सू० २५ ॥
पूर्व पारिहारिकस्याऽशनादिदानविधिरुक्तः, साम्प्रतं पारिहारिकपात्रगृहीताऽशनादिभोजने अपारिहारिकस्य विधिमाह-'परिहारकप्पढिए' इत्यादि ।
सूत्रम्- परिहारकप्पदिए भिक्खू सएणं पडिग्गहेणं बहिया अप्पणो वेयावडियाए गच्छेज्जा, थेरा य तं वएज्जा-पडिग्गाहेहि अज्जो ! अहंपि भोक्खामि वा पाहामि वा, एवं णं से कप्पइ पडिग्गाहित्तए, तत्थ णो कप्पइ अपरिहारिएणं परिहारियस्स पडिग्गहसि असणं वा पाणं वा खाइम वा साइमं वा भोत्तए वा पायए वा, कप्पइ से सयंसि पडिग्गहंसि सयंसि पलासगंसि कमढगंसि वा सयंसि खुव्वगंसि पाणिंसि वा उद्धटु उद्धटु वा भोत्तए वा पायए वा, एस कप्पे अपरिहारियस्स परिहारियओ ॥ सू० २६॥
छाया-परिहारकल्पस्थितो भिक्षुः स्वकीयेन प्रतिग्रहेण बहिरात्मनो वैयावृत्त्याय गच्छेत, स्थविराश्च तं वदेयः प्रतिगृह्णीयाः-आर्य ! अहमपि भोक्ष्ये वा पास्यामि वा, एवं खलु तेस्य कल्पते परिग्रहीतुम्, तत्र नो कल्पते अपारिहारिकेण पारिहारिकस्य प्रतिग्रह अशनं वा पानं वा खाद्य वा स्वाद्य वा भोक्तुं वा पातुं वा, कल्पते तस्य स्वकीये प्रतिग्रहे वा स्वकीये पलाशके कमढके वा स्वकीये खुव्वके वा पाणौ वा उद्धृत्य उद्धृत्य भोक्तुं वा पातुं वा एष कल्पोऽपारिहारिकस्य पारिहारिकतः ॥ सू० २६ ॥
— भाष्यम्--'परिहारकप्पट्टिए' परिहारकल्पस्थितः 'भिक्खू' भिक्षुः 'सएणं पडिग्गहेणं' स्वकीयेन स्वात्मसंबन्धिना प्रतिग्रहेण पात्रेण 'बहिया' बहिः उपाश्रयाद् बहिः अप्पणो वेयावडियाएं' आत्मनः स्वस्य वैयाघृत्त्याय संयमयात्रां निर्वाहयितुमशनाद्याहाराऽऽनयनाय 'गच्छेज्जा'