________________
७०
व्यवहारस्त्रे पारिहारिका दुर्भिक्षादिकारणवशादेकत्र वसन्ति तेषां मध्ये प्रतिसेवितषाण्मासिकतपसः षण्मासोपरि एको मासः कथं भवेत् ! इति दर्शयितुं गाथामाह--'पणगं पणगं' इत्यादि ।
"पणगं पणगं मासे, दिवसाणं वड्ढणं च तं वज्जे । एवं छम्मासेसु य, एगो मासो य वड्ढेइ” ॥१॥ छाया--पञ्चकं पञ्चकं मासे, दिवसानां वर्धनं च तद् वर्जयेत्
एवं षण्मासेषु च, एको मासश्च वर्धते ॥१॥ व्याख्या---'पणगं पणगं मासे' दिवसाणं' मासे मासे यत् दिवसानां पञ्चकं पञ्चक रात्रिन्दिवपञ्चकम् , 'वड्ढणं' वर्धनं परिवर्धनं भवति 'तं वज्जे' तद् दिवसपञ्चकं प्रत्येकस्मिन् मासे परिपूर्णे तदुपरि पञ्च पञ्च दिवसान् वर्जयेत् संभोगे । ‘एवं छम्मासेसु य' एवम् अनेन क्रमेण षण्णां मासानामुपरि एको मासो वर्धते तं वर्जयेत् परित्यजेत् , षण्मासानन्तरं तदुपरितनमासेऽपि तैः सह संभोग वर्जयेत् आलापादिकं तु क्रियते । अयं भावः-यो हि कश्चित् श्रमणो मासिकमेव परिहारतपः प्राप्तवान् , तस्य मासं वहतः आलापनादिकं सर्व वर्जितं भवति । मासे व्यूढे सति यत् तदुपरि पञ्चरात्रिन्दिवे व्यतीते आलापनादीनि सर्वाणि क्रियन्ते, केवलं पञ्चरोत्रिन्दिवं यावत् भोजनमात्रमेव वय॑ते । एवं यो द्वौ मासौ आपन्नं परिहारतपस्तस्य मासद्वयोपरि दशरात्रिन्दिवं यावत् आलापनादीनि क्रियन्ते केवलं सहभोजनं वय॑ते । एवं यस्त्रीन्मासान् आपन्नस्तस्य मासत्रयोपरि पञ्चदशरात्रिन्दिवं यावत्, यश्च चतुरो मासानापन्नस्तस्य मास चतुष्टयोपरि विंशतिरात्रिंदिवं यावत् , यः पञ्चमासानापन्नस्तस्य पञ्चमासोपरि , पञ्चशितिदिवसान् यावत् , यस्तु षण्मासानापन्नः तस्य षण्मासेषु व्यूढेषु तदुपरि एक मासं यावदेकत्र स्थाने तैः सह केवलं भोजनमेव वय॑ते, आलापनादिकं तु सर्व सर्वत्र क्रियते एवेति । अत्रेदमुक्तं भवति-तपोवहनकाले तपोवाहकेन साध संलापादिकमपि कोऽपि न कुर्यात् किन्तु गृहीतमासतपोवहनानन्तरं तदुपरि प्रतिमासं पञ्चपञ्चदिवसक्रमेण तेषु दिवसेषु आलापनादीनि कर्त्तव्यानि भवेयुः, किन्तु सहभोजनं तु यथागृहीतमासोपरि यस्मिन् एकमासिकादितपसि यानि रात्रिन्दिवानि लभ्यन्ते तेषु व्यतीतेषु कत्तु कल्पते इति ।
ननु ऋतुबद्धेषु मासेषु कृतापराधस्य वर्षामासेष्वेव प्रायश्चित्तं दीयते इति श्रूयते तत्र किं कारणम्, उचितं तु येन यदैव यदाचरितं प्रतिसेवनादिकं तस्य तदैव प्रायश्चित्तं दातव्यं भवेत् ? तत्राह-वर्षाकाले परिहारतपःप्रायश्चित्तदाने नास्ति दोषाणां संभावना प्रत्युत बहवो गुणा एव भवन्ति।
अयं भावः- यदि ऋतुबद्धे काले परिहारतपो दीयेत, ततः तस्मिन् दत्ते सति यदि मासकल्पः परिपूर्णो भवति तदा तस्य तत्स्थानात् विहार आवश्यक इति कृत्वा विहरन्ति तदा सन्तापादयो दोषाः संभवन्ति ।