________________
भाष्यम् उ० २ सू०२४
पारिहारिकाऽपारिवारिक संभोगविधिः ६९ स गच्छस्य शुभाशुभव्यवस्थामुपेक्ष्य स्वयं जीवन् नान्यं गच्छयोग्यं साधुं स्वपदे युवराजत्वेन स्थापयति तेन तस्मिन् कालगते परस्परकलहभावतो गच्छो विनाशमुपैति तस्माज्जीविते एव स्वस्मिन् आचार्य उपाध्यायो वा स्थापनीय इति । प्रस्तुतं सूत्रं तु गच्छनिरपेक्षाचार्यविषयकम् । एवं सति गच्छवासिनो यस्मिन् विश्वासः स्यात्तमेकपाक्षिकम् अपवादे भिन्नपाक्षिकं वा साधुमाचार्योपाध्यायत्वेन स्थापयेयुः , येनास्वामिको गच्छो न भवेदिति ॥ सू० २३ ॥
सूत्रम् - बहवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयओ एगमासं वा दुमासं वा तिमासं वा चाउम्मासं वा पंचमासं वा छम्मासं वा वत्थए ते अन्नमन्नं संभुजंति अन्नमन्नं नो संभुंजंति मासंते तो पच्छा सव्वेवि एगयओ संजति ॥सू०२४ ॥
छाया--बहवः पारिहारिकाः वहवोऽपारिहारिकाः इच्छेयुः एकत्र एकमासं वा द्विमासं वा त्रिमास वा चतुर्मासं वा पंचमासं वा षण्मास वा वस्तुम् ते अन्योऽन्य संभुञ्जते अन्योन्यं नो संभुञ्जते मासान्ते ततः पश्चात् सर्वेऽपि एकत्र संभुञ्जते ॥ सू० २४॥
भाष्यम्-'बहवे परिहारिया' बहवोऽनेके द्वित्रादयः पारिहारिकाः संप्राप्तपरिहारतपःप्रायश्चित्तवन्तः 'बहवे अपरिहारिया' बहवः प्रभूता द्वित्रादयोऽपारिहारिकाः पारिहारिकभिन्नाः दोषाभावात् परिहारतपोवर्जिताः शुद्धा इत्यर्थः सर्वं ते अशिवादिकारणवशात् तपोवहननिमित्तं वा 'इच्छेज्जा' इच्छेयुः, किमिच्छेयुस्ते स ? तत्राह-'एगयओ' इत्यादि, ‘एगयो' एकतः एकत्रस्थाने 'एगमासं वा' एकमासं वा मासैकमात्रं वा 'दुमासं वा' द्विमासं वा मासद्वयं वेत्यर्थः 'तिमासं वा' त्रिमासं वा मासत्रयमित्यर्थः, 'चाउम्मासं वा' चतुर्मासं वा मासचतुष्टयं यावदित्यर्थः 'पंचमासं वा' पञ्चमासं वा मासपञ्चकमित्यर्थः, 'छम्मासंवा' षण्मासं वा मासषट्कं वा 'वत्थए' वस्तुं यावद् अशिवादि निवत्तेंत तावत् एकत्र वासं कर्तुमिति, तत्र 'ते अन्नमन्नं संभुंजति' इति ते पारिहारिकाः अन्योऽन्यं परस्परं पारिहारिकाः पारिहारिकैः सार्धं 'समुंजते' सर्वप्रकारैः संभोगं कुर्वन्ति तेषां सादृश्यात् , 'अन्नमन्नं नो संभुजति' इति पारिहारिकाः यावत् कालपर्यन्तं परिहारतपो वहंति तावत्पर्यन्तं ते परस्परं पारिहारिकाः पारिहारिका मिलिवा संभुञ्जते इत्यर्थः वा अथवा अपारिहारिकैः साकं न संभुञ्जते । अयं भावः-ये प्रतिपन्नपरिहारतपोवन्तस्ते, तथा ये. परिहारतपोऽधुना न वोढुमारब्धवन्तस्ते, एते परस्परं न संभुजते, एवं पारिहारिका अपारिहारिकाश्च एतेऽपि परस्परं न संभुजते इति । प्रतिपन्नपरिहारतपसः पारिहारिकास्तु परस्परं संभुज्जते इति पूर्वमुक्तमेवेति । 'मासंते' यैः षण्मासाः सेविताः तेषां यः षण्मासोपरिवर्ती मासस्तं यावत् , षण्मासोपरि एकमासपर्यन्तमित्यर्थः ते पारिहारिकाः परस्परं पारिहारकैः सममपारिहारिकै सममेकत्र न संभुञ्जते, आलापादीनि तु परस्परं कुर्वन्ति । 'तओ पच्छा' ततः पश्चात् षण्मासोपरि मासपरिपूर्णानन्तरम् 'सव्वेवि एगयो संभुंजंति' सर्वेऽपि प्रतिसेवितपरिहारतपसः अपरिहारिकाश्चैकतः एकत्र स्थाने संभुञ्जते सर्व प्रकारैः संभोगं कुर्वन्ति, अत्र ये पारिहारिकाs