SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ व्यवहारस्ने उपाध्याये वा मृते सति 'कप्पई' कल्पते 'आयरियउवझायाणं' आचार्योपाध्याययोः 'इत्तरियं' इत्वरिकां कियत्कालभाविनीम् अल्पकालिकीम् यावदन्यो विशिष्ट तर आचार्योपाध्यायपदयोग्यः प्रवज्याश्रुताभ्यामेकपाक्षिको न लभ्यते तावत्कालिकीम् इत्वरग्रहणमुपलक्षणं यावत्कथिकां च यावज्जीवभाविनीम् 'दिसं वा अणुदिसं वा' तत्र दिशम् आचार्यत्वमुपाध्यायत्वं वा, अनुदिश वा आचार्योपाध्यायपदद्वितीयस्थानवतित्वं वा 'उद्दिसित्तए' उद्देष्टु कर्तुम्, यद्वा 'धारिचए वा' स्वयमेव धारयितुम् 'जहा तस्स गणस्स पत्तियं सिया' यथा येन प्रकारेण तस्य गणस्य प्रत्ययं विश्वासः स्यात्, तथा दिशमनुदिशं वा उदिशेत् , मृते आचार्योपाध्याये तत्पदेऽन्य कमपि स्थापयेत् स्वमात्मानं वा स्थापयेत् येन गणस्य विश्वासः स्यात् तथैव कर्त्तव्यम् योग्यस्यैकपाक्षिकस्याभावे भिन्नपाक्षिकमपि अपवादपदेन स्थापयेत्, किन्तु गणमाचार्योपाध्यायशून्यं न कुर्यादिति । अयं भावः-यद्याचार्योपाध्याययोराकस्मिकमरणादिमा गच्छे तदभावे जाते सनाथयितुं यावत्पर्यन्तं पदवीयोग्यः श्रमणो न मिलेत् तावत्कालं साधारणमपि यस्योपरि गणस्य विश्वासः स्यात् तादृशं साधुमाचार्योपाध्यायपदे स्थापयितुं कल्पते अनेन प्रकारेण स्थापितः आचार्यः उपाध्यायो वा इत्वरोऽल्पकालिकः इति कथ्यते । अथ यदि कश्चिघोग्यः सारणावारणादिगच्छकार्यदक्षो बहुश्रुत एकपाक्षिकः प्राप्यते यदुपरि गच्छस्य विश्वासश्च स्यात् . स. यावज्जीवमाचार्यपदे उपाध्यायादे वा स्थापयितुं कल्पते, स च यावज्जीवकः यावत्कथिक इति कथ्यते इति । अत्र प्रव्रज्यया श्रुतेन चेति पदद्वयस्य चतुर्भङ्गी जायते, यथा एकः प्रवज्यया श्रुतेन च एकपाक्षिकः १, द्वितीयो न प्रव्रज्यया किन्तु श्रुतेन २, तृतीयः प्रव्रज्यया किन्तु न श्रुतेन ३, चतुर्थो न प्रव्रज्यया न श्रुतेन ४ इति । अत्र प्रथमो भङ्गः शुद्धः, चतुर्थो भङ्गोऽशुद्धः, ततः आयेषु त्रिषु भङ्गेषु एकैकस्याभावे उत्तरोत्तरो ग्राह्य इति । एकपाक्षिको द्विविधः एकवाचनाकः, एकप्रव्रज्याकश्च, तत्र एकवाचनाकः एका समाना परस्परं वाचना यस्य स एकवाचनाकः एकगुरुकुलाधीनः, एकप्रव्रज्याकः एकस्मिन् कुळे प्रव्रज्या यस्य स एककुलवर्ती, उपलक्षणात् एकगच्छवर्ती, सहाध्यायी वा गृह्यते इति । गच्छाधिपतिराचार्यो द्विविधो भवति-अभ्युद्यतपरिकर्मा अभ्युद्यतमरणो वा, अभ्युवतः उद्युक्तः परिकर्मणि विहारादिपरिकर्मणि यः स अभ्युद्यतपरिकर्माः, द्वितीयः अभ्युद्यतमरणः-अभ्युद्यतः उद्युक्तः मरणे भक्तप्रत्या. ख्यानादिना असाध्यरोगविशेषेण वा यः स अभ्युद्यतमरणः । एष एकैको द्विविधः-गच्छसापेक्षो गच्छनिरपेक्षो वा, तत्रैको गच्छव्यवस्थायामपेक्षावान् , अन्यो गच्छव्यवस्था प्रति निरपेक्षः स्यात् । यो गच्छसापेक्षः स्यात् सः अभ्युद्यतविहारपरिकर्मा वा अभ्युद्यतमरणो वा जीवन्नेव यः कश्चिदेकपाक्षिकः प्रव्रज्याश्रुताभ्यां भवेत्तं स्वपदे पूर्वमेव स्थापयति येन तदनुरक्तो गच्छः कालगतेऽपि तस्मिन्नाचायें परस्परप्रेमानुभावतो न विनाशमुपैति । यः पुनर्गच्छनिरपेक्षो भवेत्
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy