SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ०२ सू० २३ मृते आचार्यादौ तत्पदप्रदानविधिः ६७ पुच्छियव्वे' तन्निर्णयाय स एव यः अवधावितः स एव, अथवा अस्य सार्धे साक्षिरूपेण प्रेषितो भवेत् स वा साधु प्रष्टव्यः। किं प्रष्टव्यः ? तत्राह-'किं पडिसेवी ? अपडिसेकी' ! प्रथमं तमेवाऽऽह्य गणनायकेन स प्रष्टव्यः-कि भोः! त्वमत्रतो गत्वा अकृत्यं प्रतिसेवितवानसि ! अथवा न प्रतिसेवितवानसि ? । यस्तेन साधं गतः सोऽप्येवमेव प्रष्टव्यः-यदयम् अकृत्य प्रतिसेवितवान् ! न वे ! ति । उपर्युक्तप्रकारेण सत्यस्वरूपं ज्ञातुं गणनायकेन पृष्टः सन् ‘से य वएज्जा' स च वदेत्, स पृष्टः साधुर्यदि धदेत्–'पडिसेवो' प्रतिसेवी अहमकृत्यप्रतिसेवनां कृतवानस्मि तदा 'परिहारपत्ते' परिहारप्राप्तः परिहारतपोयोग्यो जातः, आचार्येण पृष्टः प्रतिसेवको यदि स्वीकरोति प्रतिसेवनां तदा तदीयमेव वचनं प्रमाणीकृत्याऽऽचार्यः तस्मै परिहारनामकं तपः प्रायश्चित्तरूपेण दद्यादिति भावः । 'से य वएज्जा नो पडिसेवी नो परिहारपत्ते' स च यदि वदेत् नो प्रतिसेवी तदा नो परिहारप्राप्तो भवति, न परिहारतपःप्रायश्चित्तभाग् भवति । आचार्येण पृष्टः सः यदि कथयेत्यत् नाहमकृत्यं प्रतिसेवितवानस्मि तदा तद्वचनमेव प्रमाणीकृत्याऽऽचार्यों नो परिहारतपो दद्यात् , तस्मैं अप्रतिसेवकाय परिहारनामकं तपो न दद्यादिति भावः । कथमेवम् ! तत्राह–'जं से इत्यादि, ‘ज से पमागं वयइ से पमाणाभो घेत्तव्वे' यत्स प्रमाण वदति तस्मादेव प्रमाणात् स सत्योऽसत्योवेति निश्चेतव्यः, तद्वचनप्रमाणेनैव सत्यार्थाऽसत्यार्थयोनिर्णयः कर्त्तव्य इति भावः । 'से किं माहु भंते !' अथ किमर्थं कस्माद्धेतोरेवमाहुर्भदन्त ! हे भदन्त ! कथमेवमुच्यते यत् तस्य वचनप्रमाणेनैव सत्यासत्यनिर्णयः कर्तव्यः ? यावता एवं सति कुत्रापि सत्यार्थनिश्चयो न स्यात् नहि कोऽपि स्वकृतमकृत्यस्थान पतिसेवनं प्रकाशयिष्यति लज्जया लोकनिन्दाभयाद्वा तत्कथमेवं तद्वचनमेव प्रमाणीक्रियते भवता ? इति शिष्यस्य जिज्ञासायामाचार्यः प्राह-सच्चपइण्णा ववहारा' सायप्रतिज्ञा व्यवहाराः प्रायश्चित रूपा व्यवहाराः सत्यप्रतिज्ञाः प्रतिज्ञयैव सत्या जिनैर्निर्दिष्टा ॥ सू० २२॥ दिवंगते आचार्योपाध्याये तः पदेऽन्याचार्योपाध्यायस्थापनविधिमाह-एगपक्खियस्स'इत्यादि । सूत्रम्-एगपक्खियस्स भिक्खुयस्स कप्पइ आयरियउवज्झायाण इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा जहा बा तस्स गणस्स पत्तियं सिया ॥ सू०२३॥ छाया-एकपाक्षिकस्य भिक्षुकस्य कल्पते आचार्योपाध्यायानाम् इत्वरिकां दिशं अनुदिशं वा उद्देष्टुं वा धारयितुं वा यथा वा तस्य गणस्य प्रत्ययं स्यात् ॥ स्० २३॥ भाष्यम् –'एगपक्खियस्स' एकपाक्षिकस्य एकः समानः पक्ष इत्येकपक्षः सोऽस्त्यस्येत्येकपाक्षिकः प्रव्रज्यया श्रुतेन च, तस्य इत्थंभूतस्य 'भिक्खुयस्स' भिक्षुकस्य आचार्य
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy