SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ बृहत्करुपमा कथित् प्रवचनोड्डाहभीरुधर्मश्रद्धालुः साधुस्तदधिकरणमुपशमयितुं तत्रागच्छति, एवम् तत् तदीयगमनागमनं शुद्धमपि वासावासे वर्षावासे वर्षाकाले 'न करणिज्ज' न करणीयम् यतो वर्षाकाले साधूनां गमनागमनं न कल्पते, इत्येष एव पूर्वसूत्रेण सहाऽस्य सूत्रस्य सम्बन्धः ॥२८॥ अनेन सम्बन्धेनायातं वर्षावासे गमनागमननिषेधपरकमिदं सूत्रमाह-'नो कप्पइ' इत्यादि । सूत्रम्--नो कप्पइ निग्गंथाण वा निग्गथीण वा वासावासेसु चरित्तए ॥ ३६॥ छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वर्षावासेषु चरितुम् ।। २०३६॥ चूर्णी-'नो कप्पइ' इति । निम्रन्थानां निर्ग्रन्थीनां च वर्षावासेषु वर्षायां वर्षाकाले वासः वर्षावासः, तस्य चातुर्मासरूपत्वाद् बहुत्वविवक्षायां तेषु वर्षावासेषु चतुर्मासरूपेषु वर्षाकालसम्बन्धिषु अतर्षु मासेषु चरितुं विचरितुम् एकस्माद् ग्रामादन्यस्मिन् ग्रामे गन्तुं न कल्पते । वर्षासु विहरतः महकायविराधनेन संयमात्मविराधना भवति । तत्र षट्कायविराधना यथा-वर्षाकाले पन्थानः अमर्दिता भवन्ति तेन पृथिवीकायविराधना १, जलक्लिन्नमार्गे गभनेऽप्कायविराधना सुस्पष्टैव २, उपधेर्जलक्लिन्नत्वेन तापनार्थ मतिर्भवेत्तेन तापनबुद्धयाऽग्निकायविराधनादोषः समापद्येत ३, जलाईवायोस्तीव्रगत्या वायुकायविराधना ४, वर्षाकाले भूमौ दूर्वादिवनस्पतिकायः समुद्भवति, जलसद्भावात् पनकसमर्छनमपि भवति, इत्यादिना वनस्पतिकायविराधना ५, वर्षाकाले इन्द्रगोपशिशुनागाधनेकासा भूमौ विचरन्ति तेन त्रसकायविराधना भवेत् ६ । एवं संयमविराधना भवति । आत्मविराधना तु अनेकप्रकारा भवति यथा-कर्दमपिच्छिले मार्गे पादस्खलनं, तेन विषमे भूप्रदेशे निपतनं भवेत् , जलेऽदृश्यमानकीलककण्टकादि वा चरणयोविद्धं भवेत् , अकस्मात् गिरिनद्यादिजलपूरेणान्यत्र नयनं भवेत् , इत्याद्यनेकप्रकाराऽऽमविराधना भवेत् । तीर्थकराज्ञाविराधना तु स्पष्टैव शास्त्रे, चातुर्मासविहरणस्य निषिद्धत्वात् । तस्मात् निर्ग्रन्थैर्निन्थिीभिश्च वर्षाकाले विहरणं न विधेयम् , अपवादे राज्योपद्रवे ग्रामदाहे दुर्भिक्षे जलप्लाविते ग्रामे, इत्यादिसंयमयात्रानिर्वाहबाधकेषु कारणेषु समुपस्थितेषु वर्षाकाठेऽपि तत्रतो निर्गमनमावश्यकं भवेदिति ॥ सू०३६॥ पूर्व-वर्षावासे -चातुर्मासे श्रमणानां विहरणं न कल्पते इति प्रतिपादितम् , अथ कस्मिन् काले श्रमणानां विहरणं कल्पते ? इति प्रश्ने विहारकल्पकालं प्रदर्शयन्नाह - 'कप्पई' इत्यादि । . सूत्रम्--कप्पइ निम्गंथाणं वा निग्गंथीणं वा हेमंतगिम्हासु चरित्तए ॥ सू०३७॥ छाया-कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा हेमन्तग्रीष्मेषु चरितुम् ॥२०३॥ -'कप्पई' इति । निम्रन्थानां वा निम्रन्थीनां वा 'हेमंतगिम्हासु' हेमन्तग्रीष्मेषु हेक्सग्रीष्मसम्बन्धिषु अष्टसु मासेषु ऋतुबद्धे काले इत्यर्थः चरितुं विचरितुं कल्पते, ऋतुबद्धका शुकमुम्यादिकारणेन संयमात्मविराधनाया असंभवात् ॥ सू० ३७॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy