________________
चूर्णिमायावचूरो उ० १ सू० ३७-३८
विहरणविधिः २७
"
"
न वा कुर्यात् इच्छया पर:- द्वितीयः साधुस्तं साधुं वन्देत वा, इच्छया परः अन्यः श्रमणो न वन्देत वा, इच्छया परः साधुस्तेन साधुना सह संभुञ्जीत - एकसार्थं भोजनं दानग्रहणसंभोगं वा कुर्यात् वा, इच्छया परः अन्यो द्वितीयः साधुर्न संभुञ्जीत - एकमण्डल्यां भोजनं तेन सह न वा कुर्यात् इच्छया परः साधुस्तेन साधुना सह संवसेत् -सम् एकीभूय - एक स्मिन् उपाश्रये वसेद्वा, इच्छया परः साधुः न वा संवसेत् - - एकीभूय एकत्रोपाश्रये न वसेद् वा, इच्छया परः साधुः उपशाम्येद् वा इच्छया परः श्रमणो नोपशाम्येद् वा परम्, तत्र यः श्रमण उपशाम्यति कषायतापाऽपगमेन निर्वृतिमुपैति उपशमं प्राप्नोतीत्यर्थः, तस्य सम्यग्दर्शनसम्यग्ज्ञानादीनामाराधना भवति, यः पुनः साधुः नोपशाम्यति उपशमं न प्राप्नोति तस्य साधोस्तेषां सम्यग्दर्शनादीनां नास्ति आराधना, तस्मात् कारणात् एवम् उक्तरीत्या विचिन्त्य -विभाव्य आत्मनैव उपशान्तव्यम् उपशभो विधेयः । शिष्यः प्राह 'से किमाहु अंते' हे भदन्त ! से तत् किमत्र विषये कारणमाहुः उक्तवन्तः तीर्थकरप्रभृतयः ? आचार्य आह - 'उवसमसारं सामन्नं' उपशमसारम् - उपशमः सारो यत्र तत् उपशमसारमेव श्रामण्यं भवति, नोपशमरहितं श्रामण्यमित्यर्थः, उपशमवर्जितस्य श्रामण्यस्य निष्फलत्वादिति भावः । तथा चोक्तम् - 'सामन्नऽणुचरंतस्स कसाया जस्स उक्कडा होंति ।
मन्नामि उच्छुपुष्कं व निष्फलं तस्स सामन्नं ॥ १ ॥
श्रामण्यमनुचरतः कषाया यस्य उत्कटा भवन्ति । मन्ये इक्षुपुष्पमिव निष्फलं तस्य श्रामण्यम् ॥ १ ॥ इति ॥ सू० ३५||
अथ पूर्वोक्ताऽधिकरणसूत्रेण सहास्य वर्षावासगमननिषेधसूत्रस्य कः सम्बन्ध: ? इत्यत्राह भाष्यकारः -- ' किच्चा' इत्यादि ।
भाष्यम् - किच्चा कलहं गच्छर, आगच्छ वा पुणो य खामेउं । वासावासे नेवं, करणिज्जं एस संबंधो ॥ २८ ॥
अवचूरी - 'किच्चा कलहं ' इति । केनापि साधुना सहाधिकरणे समुत्पन्ने तयोर्द्वयोर्मध्ये विवेकिना भिक्षुणा 'उपशमसारं श्रामण्यम्' इति गुरूपदेशमभिसंधाय तदधिकरणं क्षमापनादिना उपशमितम् किन्तु येन सहाऽधिकरणं समुत्पन्नं स उपशाम्यमानोऽपि नोपशान्तो भवेत् स कषायानुबद्धमनाः श्रमणोऽन्यत्र ग्रामादौ 'कलहं किच्चा' अधिकरणं कृत्वा गच्छति, अथवा यः पूर्वमनुपशान्तः सन् अन्यत्र ग्रामादौ गतः स तत्र तस्य मतिपरिवर्तनेन शुभपरिणामवशात् स्वयम्, अन्यसाधूपदेशेन वा येन सहाधिकरणं जातं भवेत्तं साधुं 'खामेउं ' क्षमयितुं स्वापराधं क्षमापनार्थम् गच्छति, अथवा अन्यत्र गतः स सांवत्सरिकक्षमापनाकाले आसन्ने समायाते सति विचारयेत् - 'यन्मया तदधिकरणं न क्षमितमतः कथं तावन्मम सांवत्सरिकप्रतिक्रमणं कर्तु कल्पते' इति विचिन्त्य तं श्रमणं क्षमयितुं पुनरप्यागच्छति, अथवा श्रमणानां परस्परम धिकरणमुत्पन्नमिति श्रुत्वाऽन्यत्र स्थितोऽन्यः