________________
चूणिभाष्यावचूरी उ० १ सू० ३१-४०
विरुद्ध राज्यगमननिषेधः २९
पूर्वसूत्रे ऋतुबद्धकाले निर्ग्रन्थानां विहरणं कल्पते इति प्रोक्तम्, साम्प्रतम् ऋतुबद्धकाले विहृत्य निर्ग्रन्था ग्रामनगरादौ मासकल्पविधिना तिष्ठन्ति, यत्र निर्मन्थास्तिष्ठन्ति तेन स्थानेनाऽपायवर्जितेन भवितव्यम्, स चापायो वैराज्यविरुद्धराज्यादिरूपो भवतीति तादृशे स्थाने निर्ग्रन्थे - र्गमनागमनं न कर्त्तव्यमिति तद्विधिं प्रदर्शयति- 'नो कप्पइ० वेरज्ज०' इत्यादि ।
सूत्रम्--नो कप्पइ निमथाण वा निग्गंथीण वा वेरज्जविरुद्धरज्जसि सज्जं गमणं सज्जं आगमणं सज्जं गमणागमणं करित्तए । जो खलु निग्गंथो वा निग्गंथी वा 'वेरज्जविरुद्ध रज्जंसि सज्जं गमणं सज्जं आगमगं सज्जं गमणागमणं करेइ करेंतं वा साइज से दुहओ वीकममाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्धाइयं ॥
छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वैराज्यविरुद्ध राज्ये सद्यो गमनं • आगमनं सद्यो गमनागमनं कर्त्तुम् । यः खलु निर्ग्रन्थो वा निर्ग्रन्थी वा वैराज्यविरुद्धराज्ये सद्यो गमनं सद्य आगमनं सद्यो गमनागमनं करोति कुर्वन्तं वा स्वदते स द्विधातोऽपि व्यतिक्रामन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ||३८||
चूर्णी - 'नो कप्पड़' इति । नो कल्पते न युज्यते निर्मन्थानां वा निर्ग्रन्थीनां वा ऋतुबद्धकाले विहरतां वैराज्यविरुद्धराज्ये, वि- विरुद्धं राज्यं विराज्यं तदेव वैराज्यं वर्त्तमानकालिकवैरयुक्तं राज्यम्, अथवा विगतराजकं यत्र राजा मृतो भवेत् तद् वैराज्यम्, तथाविरुद्ध'राज्यं यत्र द्वयोः राज्ञोः स्वस्वराज्ये परस्परम् एकराज्यजनानामन्यराज्ये गमनागमनं विरुद्धं निषिद्धं भवेत्तद् विरुद्धराज्यम्, वैराज्यं च विरुद्धराज्यं चेति समाहारे वैराज्यविरुद्धराज्यम् तस्मिन् तादृशे देशे प्रदेशे वा सद्यः - तत्कालम् विरोधकाल एव गमनम् यत्र स्थितस्तत्रतो निस्सरणम्, तत्, आगमनम् - अन्यप्रदेशात् सद्यः - विरोधसमकाले तत्र प्रवेशः, तत्, तथा सद्यःविरोधसमकाल एव गमनागमनं वारं वारं निस्सरणं प्रवेशं वा कर्त्तुं न कल्पते इति पूर्वेण सम्बन्धः । यदि यः खलु साधुः पूर्वोक्ते वैराज्यविरुद्ध राज्ये गमनमागमनं गमनागमनं च करोति स्वयं, कारयति वाऽन्यं, तथा कुर्वन्तं वाऽन्यं स्वदते - अनुमोदते तदा स तत्र गमनस्यागमनस्य गमनागमनस्य च कर्त्ता कारयिता अनुमोदिता च द्विधातोऽपि - उभयतोऽपि द्वयानामपि तीर्थकृतां राज्ञां च सम्बन्धिनीम् आज्ञां व्यतिक्रामन् उल्लङ्घयन् तीर्थकरराजाज्ञाया विराधनां कुर्वन् आपद्यते प्राप्नोति चातुर्मासिकं चतुर्माससम्बन्धि परिहारस्थानम् अनुद्वातिकं चतुर्गुरुकं प्रायश्चित्तम् । यस्मात्कारणात् वैराज्यविरुद्धराज्ये गमनागमन करणे साधुः प्रायश्चित्तभागी भवति तस्मात् कारणात् वैराज्यविरुद्धराज्ये न स्वयं गमनागमनं कुर्यात् न कारयेत् न वा कुर्वन्तमन्यमनुमोदेत, तत्र प्रवचनोड्डाह संयमात्मविराधनाद्यनेक दोषापत्तिसद्भावादिति ॥ सू० ३८॥
पूर्वसूत्रे वैराज्यविरुद्ध राज्ये साधूनां गमनागमननिषेधः प्रतिपादितः, साम्प्रतं वैराज्य विरुराज्ये कदाचिद् गतो भवेत्तत्र लुण्टकैर्वस्त्राणि लुण्ठितानि भवेयुस्ततोऽन्यग्रामादौ साधुर्गच्छेत्