________________
चूर्णी-भाष्यावचूरी टीका० उ० १ सू० १-५
अकुशलप्रतिसेवना ३
'साइज्जइ' स्वदते अनुमोदते स गुरुमासिकप्रायश्चित्तभाग्भवतीति प्रथमोद्देशके सर्वसूत्रेषु संयोजनीयम् ॥ सू० १ ॥
सूत्रम् - जे भिक्खू अंगादाणं कट्ठेण वा किलिचेण वा अंगुलियाए चा सिलागाए वा संचालेइ संचालतं वा साइज्जइ ॥ सू० २ ॥
छाया --- यो भिक्षुः अङ्गादानं काष्ठेन वा किलिंचेन वा अंगुलिकया वा शलाकया वा संचालयति संचालयंतं वा स्वदते ॥ सू० २ ॥
चूर्णी - 'जे भिक्खू अंगादाणं' इति 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानम् तत्राङ्गानि अष्टौ तानि चेमानि शिरः १ उरः २ उदरम् ३ पृष्ठम्: बाहुद्वयम् ५-६ ऊरुद्वयम् ७-८ चेति । उपलक्षणात् उपाङ्गनामानि प्राह्माणि तानि चेमानि - कर्णौ नासिके अक्षिणी जङ्घे हस्तपार्श्वाः नखाः केशाः श्मश्रु अंगुल्यः तलोपतलाः- हस्ततल - पादतल - समीपस्था भागाः, तेषाम् आदानम् उत्पत्तिकारणम् अङ्गादानम् उपस्थचिह्नम् तत् 'कट्ठेण वा' काष्ठेन वा खदिरादिकाष्ठखण्डेन 'किलिंचेण वा' किलिञ्चेन वा वंशादिशलाकया वा । 'अंगुलियाए वा' अङ्गुलि - कया - करचरणांगुलिना वा 'सिलागाए वा' शलाकया लोहादिनिर्मितशलाकया वा 'संचालेइ ' संचालयति प्रेरयति, 'संचालतं वा' संचालयन्तं प्रेरयन्तम् ' साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभाग्भवतीति भावः । अत्र दृष्टान्तमाह —
यथा कोsपि पुरुषः सुखसुप्तं सिंहं काष्ठयष्टचादिना संचालयति तदा स सिंहः तं संचालक विनाशयति । एवमेव पुरुषचिह्नस चालकस्य मुनेश्चारित्रजीवनं विनश्यतीति ॥ सू० २ ॥
सूत्रम् — जे भिक्खू अंगादाणं संवाहेज्ज वा पलिमद्देज्ज वा संवाहतं वा पलिमद्दतं वा साइज्जइ ॥ सू० ३ ॥
छाया -यो भिक्षुः अङ्गादानं संवाहयति वा परिमयति वा संवाहयन्तं वा परिमर्दयन्तं वा स्वदते ॥ सू० ३ ॥
चूर्णी - 'जे भिक्खू अंगादाणं संवाहेज्ज वा' इति । 'जे भिक्खू' यो भिक्षुः मुनिः 'अंगादाणं' अङ्गादानम् पूर्वोक्तलक्षणम् 'संवाहेज्ज वा' संवाहयति वा सामान्येन मर्दयति 'पलिमद्देज्ज' वा परिमर्दयति विशेषेण मर्दयति 'संबा हतं वा' संवाहयन्तं वा 'पलिमद्दतं वा' परिमर्दयन्तं वा 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभाग्भवतीति ।
अत्र दृष्टान्तमाह-यथा सुखोपविष्टं सुप्तं वा सर्प कोऽपि मर्दयति हस्तपादादिना तदा स सर्पः स्वमर्दकस्य जीवितं विनाशयति तथैव मर्दितं पुरुषचिह्नं मुनेश्चारित्रं ध्वंसयतीति भावः ।
શ્રી નિશીથ સૂત્ર