SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे सूत्रम्-जे भिक्खू अंगादाणं तेल्लेण वा घरण वा वसाए वा णवणीएण वा अन्भंगेज्ज वा मक्खेज्ज वा, अब्भंगेंतं वा मक्खेतं वा साइज्जइ । सू० ४ ॥ छाया-यो भिक्षुः अङ्गादानं तैलेन वा घृतेन वा वसया वा नवनीतेन वा अभ्ययति म्रक्षयति, अभ्यंगयन्तं वा म्रक्षयन्त वा स्वदते ॥ सू० ४ ॥ चूर्णी-जे भिक्खू तेल्लेण वा' इति । 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानं पूर्वोक्तलक्षणम् 'तेल्लेण वा' तैलेन वा तिलादितैलेन वा 'घएण वा' घृतेन वा 'वसाए वा' वसया स्निग्धपदार्थजातेन ‘णवणीएण वा' नवनीतेन 'मक्खन' इति प्रसिद्धेन 'अभंगेज्ज वा' अभ्यङ्गयति मर्दयति 'मक्खेज्ज वा' म्रक्षयति विशेषेण मर्दयति 'अभंगेंतं वा' अभ्यङ्गयन्तं वा 'मक्खेंतं वा' म्रक्षयन्तं 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभाग् भवतीति । अत्र दृष्टान्तमाह- यथा प्रज्वलिताग्नौ घृतादिना परिषिश्चिते सति असौ प्रज्वलितोऽग्निP. हादिकं प्रज्वलयति तथैव अङ्गादानं तैलादिना मर्दकस्य चारित्रं विध्वंसयतीति भावः ॥ सू० ४ ॥ सूत्रम्-जे भिक्खू अंगादाणं कक्केण वा लोहेण वा पउमचुण्णेण वाहाणेण वा सिणाणेण वा चुण्णेहिं वा उव्वट्टेइ पखिट्टेइ उव्वटुंतं वा परिवटुंतं वा साइज्जइ ॥ सू० ५॥ छाया-यो भिक्षुः अङ्गादानं कल्केन वा लोभ्रेण वा पद्मचूर्णेन वा स्नानेन वा स्नपनेन वा चूणैर्वा वर्णैर्वा उद्वर्तयति , परिवर्त्तयति उद्वर्तयन्तं वा परिवर्तयन्तं वा स्वदते ॥ सू०५॥ चूर्णी -'जे भिक्खू अंगादाणं कक्केण वा' इति । 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानम् 'कक्केण वा, कल्केन वा' कल्कोऽनेकसुगन्धिद्रव्यनिष्पन्न उद्वर्तनविशेषः, तेन, 'लोद्देण वा' लोभ्रेण वा सुगन्धद्रव्यविशेषेण 'पउमचुण्णेण वा' पद्मचूर्णेन वा सुगन्धिकमलपुष्पचूर्णेन वा 'हाणेण वा' स्नानेन वा सामान्यस्नानेन वा 'सिणाणेण वा' स्नपनेन वा विशेषस्नानेन वा सुगन्धाऽऽमोदभरितजलस्नानेनेत्यर्थः । 'चुण्णेहि वा' चूर्णैर्वा यवादिपिष्टैः 'वण्णेहिं वा' वर्णैर्वा अबीरादिचूर्णविशेषैः, 'उबट्टेइ' उद्वर्त्तयति सामान्यतो मर्दयति 'परिवइ' परिवर्तयति विशेषतो मर्दयति, 'उव्वदृतं वा' उद्वर्तयन्तं वा 'परिवदृतं वा' परिवर्तयन्तं वा 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्ता) भवतीति ॥ सू० ५ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy