________________
चूर्णिभाष्यावचूरिः उ०२० सू०१७ मासिकादिपरिहारस्थानप्रतिसेवनप्रायश्चित्तविधिः ४४१ नयोग्यम् - अनुपारिहारिकं पारिहारिकानुकूलवत्तिनं कञ्चित्साधुम् 'ठवइत्ता' स्थापयित्वा - नियतं कृत्वा अनुपारिहारिकेण वैयावृत्त्यकारेण च 'कर णिज्जं वेयावडियं करणीयं वैयावृत्त्यम्, अस्य परिहारतपसि वर्तमानस्य यथायोग्यमनुशिष्टचुपालम्भोपग्रहलक्षणं वैयावृत्यं करणीयम् | 'ठाविएवि पडिसेवित्ता' स्थापितेऽपि - अनुशिष्टयुपालम्भादिभिः क्रियमाणेऽपि वैयावृत्ये प्रतिसेविता कदाचित् किमपि अपराधस्थानं प्रतिसेवको भवेत् पापस्थानं सेवेत कथयेच्च हे भगवन् । अहममुकं प्रायचित्तस्थानमापन्नः, ततस्तत्य 'सेवि' तदपि तत्संबन्ध्यपि प्रायश्चित्तम् 'कसिणे' कृत्स्नम् सर्वं पूर्वसेवितं सम्प्रति सेवितं चेति द्वयमपि 'तत्थेव ' तत्रैव परिहारतपस्येव 'आरुहियव्वे सिया' आरोपयितव्यं स्यात् सर्व संमेलनीयमित्यर्थः, अत्र पापस्थानस्य पूर्वपश्चात्सेवनाविषयां चतुभङ्ग दर्शयितुमाह- 'पुच्वि' इत्यादि, 'पुवि पडिसेचियं पुच्चि आलोइयं' पूर्व प्रतिसेवितंपूर्वमालोचितम् १, अत्र पूर्वमित्यत्र पदैकदेशे पदसमुदायोपचारात् पूर्वानुपूर्व्या इति ज्ञातव्यम्, ततश्चायमर्थः - गुरुलघुपर्यालोचनया पूर्वानुपूर्व्या लघुपञ्चकादिक्रमेण यत् प्रतिसेवितम् तत् पूर्वं पूर्वा - नुपूर्व्या प्रतिसेवनानुक्रमेण आलोचितमिति प्रथमो भङ्गः १ । द्वितीयभङ्गमाह - 'पुव्वि पडिसेवियं पच्छा आलोइयं' पूर्व प्रतिसेवितं पश्चादालोचितम् - पूर्व गुरुलघुपर्यालोचनया पूर्वानुपूर्व्या मासलघुकादि प्रतिसेवितम् तदनन्तरं च तथाविधाल्पप्रयोजनोत्पत्तौ प्रमादादिना गुरुलघुपर्यालोचनयैव लघुपचकादि प्रतिसेवितम् आलोचनासमये च पश्चात् पश्चानुपूर्व्या आलोचितम् - यथापूर्वं लघुपञ्चकायालोचितम् पश्चात् लघुमासिकादिकमालोचितमिति द्वितीयो भङ्गः २ । अथ तृतीयभङ्ग दर्शयितुमाह- 'पच्छा पडिसेवियं' इत्यादि 'पच्छा पडिसेवियं पुवि आलोइयं' पश्चास्प्रतिसेवितं पूर्वमालोचितम्, तत्र पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्व गुरुमासादिकं प्रतिसेवितम् पश्चात् लघुपञ्चकादीति आलोचनासमये आनुपूर्व्या नालोचितम् पूर्वे लघुपञ्चकाद्यालोचितम् पश्चात् तदनन्तरं गुरुमासादिकमालोचितमिति तृतीयो भङ्गः ३ । अथ चतुर्थ - भङ्गमाह - पच्छा पडिसेवियं' इत्यादि । 'पच्छा पडिसेवियं पच्छा आलोइयं' पश्चात्प्रतिसे - वितं पश्चादालोचितम्, तत्र पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितं यथाकथंचन प्रतिसेवितमिति पश्चात् पश्चानुपूर्व्या आलोचितं प्रतिसेवनानुक्रमेणैव आलोचितम्, अथवा स्मृत्वा स्मृत्वा यथाकथंचनापि आलोचितमिति चतुर्थो भङ्गः ४ । अत्र प्रथमचतुर्थभङ्गौ अप्रतिकुञ्चनायाम्, द्वितीयतृतीयभङ्गौ तु प्रतिकुञ्चनायामिति अप्रतिकुञ्चित - प्रतिकुञ्चिताभ्यामियं चतुर्भङ्गीकृतेति । तामेव अप्रतिकुश्चि प्रतिकुञ्चितम् इत्येतद्विषयां चतुर्भङ्गीं दर्शयितुमाह- 'अपलिउंचिए अपलिउंचियं' इत्यादि, 'अपलिउंचिए अपलिउंचियं' अप्रतिकुञ्चिते अप्रतिकुञ्चितम, यदा खलु अतिचारान् प्राप्तवान् आलोचनाकाले आलोचनाभिमुखो भवेत्तदा स एवं संकल्पयति यथा ये केचन मयि अतिचाराः जातास्ते सर्वेऽपि अतिचारा मया आलोचनीयाः न कोऽपि गोप५६
શ્રી નિશીથ સૂત્ર
"