________________
निशीथसूत्रे
छाया - यो भिक्षुर्मासिकं वा सातिरेकमासिकं वा द्वैमासिकं वा सातिरेकद्वैमासिकं वा त्रैमासिकं वा सातिरेकत्रैमासिकं वा चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा पञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा एतेषां परिहारस्थानानामन्यतमं परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्त्यं स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैव आरोपथितव्यं स्यात्, पूर्व प्रतिसे वितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पश्चादालोचितम् २, पश्चात्प्रतिसेवितं पूर्वमालोचितम् ३, पश्चात्प्रतिसेवितं पश्चादालोचितम् ४, अपरिकुञ्चिते अपरिकुञ्चितम् १, अपरिकुञ्चिते परिकुञ्चितम् २, परिकुञ्चिते अपरिकुञ्चितम् ३, परिकुञ्चिते परि कुञ्चितम् ४; अपरिकुञ्चिते अपरिकुञ्चितमालोचयतः सर्वमेतत् स्वकृतं संहृत्य यत् पतया प्रस्थापना प्रस्थापितो निर्विशमानः सन् प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोपयितव्यं स्थात् ॥ सू० १७ ॥
४४०
चूर्णी - यः खलु प्रायश्चित्तकरणसमये पुनरपि पापस्थानं प्रतिसेधते तमधिकृत्य सूत्रमिदं प्रवर्तते - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'मासियं वा मासिकं धा 'साइरेगमासियं वा' सातिरेकमासिकं वा किञ्चिदधिकैकमासेन संपादितम्, एवं द्वैमासिकं वा सातिरेकद्वैमासिकं वा, त्रैमासिकं वा सातिरेकत्रैमासिकं वा, चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा अतिरेकेणाऽधिकेन पञ्चदिनाद्यधिकेन सहितं चातुर्मासिकमिति सातिरेकचातुर्मासिकम् एवम् 'पंचमासियं वा' पाञ्चमासिकं वा 'साइरेगपंचमासियं वा' सातिरेक पाञ्चमासिकं वा मासपञ्चकात् किञ्चिदधिकं परिहारस्थानम् 'एएसिं' एतेषां पूर्वोक्तानाम् 'परिहारट्ठाणाणं' परिहारस्थानानां मध्यात् 'अन्नयरं ' अन्यतमं यत् किमपि अन्यतममेकं 'परिहारद्वाणं' परिहारस्थानम् प्रायश्चित्तस्थानम् 'पडिसेवित्ता' प्रतिसेव्य उपर्युक्त पापस्थानमध्यात् यस्य कस्याप्येकस्य परिहारस्थानस्य प्रतिसेवनां कृत्वा 'आलोएज्जा' आलोचयेत् तादृशपापस्थानं प्रकटीकुर्यात्, तत्र 'अपलिउंचिय आलोएमाणस्स' अपरिकुच्य मायामकृत्वा - ssलोचयतः आलोचनां कुर्वतः श्रमणादेः । इदं खलु सूत्रं परिहारनामकप्रायश्चित्ततपसः प्रतिपादकम् अतस्तस्य परिहारनामकतपसो विधिमाह - 'ठवणिज्जं' इत्यादि, 'ठवणिज्जं ठावइत्ता' स्थापनीयं स्थापयित्वा तत्र अपरिकुच्यालोचयतः परिहारतपसो दानसमये आचार्यः तस्मै तादृशं विधिमुपदर्शयति-यः खलु प्रतिसेवकः परिहारतपसः प्रायश्चित्तस्थानं प्राप्तवान् स परिहारनामकतया ग्रहणाय सर्वेषां श्रमण श्रमणोजनानां परिज्ञानाय सकलगच्छसमक्षं निरुपसर्गनिमितकं कायोत्सर्ग पूर्वं करोति तस्य प्रतिसेवकस्य कायोत्सर्गकरणानन्तरम् आचार्यः प्रतिसेवकं प्रति कथयति त्वं परिहारी, अहं कल्पस्थितोऽतो यावत्तव तपः पूर्ण भविष्यति तावदहं वाचनादिरूपं साहाय्यं करिष्यामीति, अन्यो वाऽनुपारिहारिकस्तव वाचनादिसाहाय्यं करिष्यति, अन्यो वाउनु - पारिहारिकस्तव वैयावृत्यं करिष्यति, इत्येवंरूपेण 'ठवणिज्जं' स्थापनीयम् - साहाय्याद्यर्थस्थाप
"
શ્રી નિશીથ સૂત્ર