________________
४४२
निशीथसूत्रे नीयः, एवं पूर्वसंकल्पकाले अप्रतिकुञ्चिते आलोचनासमये अप्रतिकुंचितमेव आलोचयतीति प्रथमो भङ्गः १, अथ द्वितीयभङ्गमाह-'अपलिउंचिए पलिउंचियं' इति, 'अपलिउंचिए पलिउंचियं' अप्रतिकुञ्चिते प्रतिकुञ्चितम् यथा-पूर्व संकल्पकाले आलोचनाविचारकाले अप्रतिकुञ्चितम्-निष्कप टभावेन समुपस्थितः आलोचनासमये तु प्रतिकुञ्चितं कपटभावेन आलोचयतीति द्वितीयो भङ्गः २, अथ तृतीयभङ्गमाह पलिउंचिए अपलि उंचिथं' प्रतिकुञ्चिते अप्रतिकुञ्चितम् पूर्वसंकल्पकाले प्रतिकुञ्चितम् यथा मया न सर्वे अतिचारा आलोचनीयाः एवंप्रकारेण पूर्वसंकल्पकाले प्रतिकुञ्चिते आलोचनासमये अन्तःकरणस्य परावर्तनात् प्रतिकुंञ्चितम्-कपटरहितं यथा स्यात् तथा आलोचयतीति तृतीयो भङ्गः ३ । अथ चतुर्थभङ्गमाह-'पलिउंचिए पलिउंचियं' प्रतिकुञ्चिते प्रतिकुञ्चितम्, पूर्वसंकल्पकाले पापस्थानप्रतिसेवकेन प्रतिकुञ्चितं यथा मया न सर्वे अपराधा आलोचनीयाः, तत एवंप्रकारेण संकल्पकाले प्रतिकुंचिते ततः आलोचनाकरणसमयेऽपि प्रतिकुञ्चितं सकपटमेव आलोचयतीत्येष चतुर्थो भङ्गः ४ । एषु चतुर्ष भङ्गेषु मध्ये यत् 'अपलिउंचिए अपलिउचियं' अप्रतिकुञ्चिते अप्रतिकुञ्चितम् पूर्व संकल्पकाले निष्कपटेन संकल्पितम् आलोचनाग्रहणकालेऽपि निष्कपटपूर्वकम् 'आलोएमाणस्स' आलोचयतः, ततश्चायमर्थः-यावन्तोऽतिचाराः प्रतिसेविताः तान् सवनिव निरवशेषमालोचयतः श्रमणादेः 'सव्वमेयं' सर्वमेतत् यत् यदा यत्तदपराधजातम् , यदि वा कथमपि प्रतिकुञ्चना कृता स्यात् ततः प्रतिकुञ्चनानिष्पन्नं, यच्च गुरुणा सहालोचनाकाले उच्चासनतुल्यासनोपवेशनादिजनितं तथा या च आलोचनासमये असमा चारी सेविता तन्निष्पन्नं च सकलमेतत् अपराधकारिणा प्रायश्चित्त प्रतिसेवकेन श्रमणादिना 'सकयं' स्वकृतम्-स्वयमेव आत्मना प्रतिसेवितम् आत्मनैव कृतम् 'साहणिय' संहृत्य-एकत्र मील यित्वा, तथा पुनश्च 'जं एयाए' यत् एतया अनन्तरपूर्वकथितया पाण्मासिक्या एकमासिकादिकया वा ‘पट्ठवणाए' प्रस्थापनया पूर्वकाले कुतस्यातिचारस्य विषये या प्रस्थापना प्रायश्चित्तदानरूपा तया प्रस्थापतया 'पट्टविए' प्रस्थापितः-प्रायश्चित्तकरणे नियोजितः 'निविसमाणे' निर्विशमानः तपसो निस्सरन् प्रायश्चित्तस्य चरमं तपः सेवमानः तपः समाप्य ततो निवर्त्तयनित्यर्थः यत् पुनः प्रमादतो विषयकषायादिभिर्वा 'पडिसेवई' प्रतिसेवते-पापस्थानस्य प्रतिसेवनां करोति तस्यां प्रतिसेवनायां यत् प्रायश्चित्तं प्राप्यते 'सेवि कसिणे' तदपि कृत्स्नम्तदपि सर्व प्राश्चित्तम् 'तत्थेव' तत्रैव-पूर्व प्रस्थापिते एव प्रायश्चित्ते 'आरुहियवे सिया' आरोपयितव्यं स्यात् सर्वमेकत्र संमेलनीयमित्यर्थः ।। सू० १७ ।।
सूत्रम्--जे भिक्खू बहुसोवि मासियं वा, बहुसोवि साइरेगमासियं वा बहुसोवि दोमासियं वा बहुसोवि साइरेगदोमासियं वा
શ્રી નિશીથ સૂત્ર